सामग्री पर जाएँ

धृतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृतिः, पुं, (ध्रियते इति । धृ + क्तिन् । अभिधा- नात् पुंस्त्वम् ।) इष्टिः । इति मेदिनी । ते, २९ ॥ (विश्वेदेवविशेषः । यथा, महाभारते । १३ । ९१ । ३० । “वलं धृतिर्व्विपाप्मा च पुण्यकृत् पावनस्तथा ॥” चन्द्रवंशीयनृपविशेषस्य विजयस्य पुत्त्रः । यथा, हरिवंशे । ३१ । ५५ । “विजयस्य धृतिः पुत्त्रस्तस्य पुत्त्रो धृतव्रतः ॥” निमिवंशीयानामेकतमः । यथा, भागवते । ९ । १३ । २६ । “शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ॥” यदुवंशीयवभ्रोः पुत्त्रः । इति विष्णुपुराणे । ४ । १२ । १५ । “रोमपादाद्वभ्रुः वभ्रोः पुत्त्रो धृतिः ॥”)

धृतिः, स्त्री, (धृ + क्तिन् ।) तुष्टिः । (यथा, मनुः । ६ । ९२ । “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्व्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम् ॥”) योगभेदः । धैर्य्यम् । (यथा, वाजसनेयसंहिता- याम् । ३४ । ३ । “यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ॥”) धारणम् । इति मेदिनी । ते, २९ ॥ सुखम् । इति हेमचन्द्रः । २ । २२२ ॥ (क्रतुः । यथा, कात्यायनश्रौतसूत्रे । २० । २ । ८ । “राजन्यो धृतिषु युद्धजपयुक्ताः ॥”) षोडशमातृकान्तर्गतत्रयोदशमातृका । इति भवदेवः ॥ अष्टादशाक्षरावृत्तिच्छन्दोमात्रम् । इति छन्दीमञ्जरी ॥ * ॥ धृतियोगजातफलं यथा, -- “धृतियोगसमुत्पन्नः प्राज्ञः संहृष्टमानसः । वावदूकः सभायाञ्च सुशीलो विनयान्वितः ॥” इति कोष्ठीप्रदीपः ॥ धारणा । सा त्रिधा । यथा, -- “धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ यया तु धर्म्मकामार्थान् धृत्या धारयतेऽर्ज्जुन ! । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ ! राजसी ॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्म्मेधा धृतिः सा तामसी मता ॥” इति श्रीभगवद्गीतायाम् । १८ । ३३-३५ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृतिः [dhṛtiḥ], f. [धृ-क्तिन्]

Taking, holding, seizing.

Having, possessing.

Maintaining, supporting.

Firmness; steadiness, constancy.

Fortitude, energy, resolution, courage, self-command. भज धृतिं त्यज भीतिमहेतुकाम् N.4.15; Bg.16.3; Ki.6.11; R.8.66.

Satisfaction, contentment, pleasure, happiness, delight, joy; धृतेश्च धीरः सदृशीर्व्यधत्त सः R.3.1;16.82; न चक्षुर्बध्नाति धृतिम् V.2.8; Śi.7.1,14.

Satisfaction considered as one of the 33 subordinate feelings (in Rhetoric); ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धृतिः । सौहित्यवचनोल्लास- सहासप्रतिभादिकृत् S. D.198,168; cf. Ki.1.36; R.3.1; Ms.1.116.

A sacrifice.

N. of metre; Nm.

consideration, care for; अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः Ki.14.1.

N. of the numeral 18.

N. of one of the 16 kalās of the moon. -Comp. -गृहीत a. armed with constancy and resolution. -मुष्a. destroying all composure, discomposing. -होमः a sacrifice included in the marriage-rites.

"https://sa.wiktionary.org/w/index.php?title=धृतिः&oldid=334578" इत्यस्माद् प्रतिप्राप्तम्