धृतिहोम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धृतिहोम¦ पु॰ धृत्याद्यष्टकोद्देशेको होमः। विवाहाङ्गेहोमभेदे
“उत्थाप्य कुमारं ध्रुवा आज्याहुतीर्जुहोति” गोभिलः
“अष्टाविह धृतिहोमाः ध्रुवा आवश्यकाः। कथञ्चिद् भर्तृगृहगमनाभावेऽपि श्वशुरगृहे निवा-सेऽपि अवश्यं होतव्याः इति। अत्र
“इह धृतिःस्वाहा” इत्यादिप्रयोगः। न तु स्वाहायोगेचतुर्थी
“धृतिहोमे न प्रयुञ्ज्यात् गोनामसु तथा-ष्टसु। चतुर्थीमघ्र्य इत्येतद्गोनामसु हि हूयते” इतिछन्दोग{??}रिशिष्टात्। धृतिहोमे धृत्यष्टकहोमे” स॰ स्का॰त॰ रघु॰। स च तत्पद्धतौ भवदेवोक्तो यथा
“ततः पतिःकुमारमुत्थाप्य पूर्ववत् कुशण्डिकोक्तविधाने धृतिनामा-नमग्निं संस्थाप्य समित्प्रक्षेपान्तं व्यस्तसमस्तम-हाव्याहृतिहोमं कृत्वा अष्टाहुतीर्जुहुयात्। अष्टानांमन्त्राणाम् ऋष्यादयः साधारणाः। प्रजापति रृषि-र्वृहती छन्दो वधूर्देवता धृतिहोमे विनियोगः। ओंइह धृतिः स्वाहा
१ । ओं इह स्वधृतिः स्वाहा
२ । ओंइह रतिः स्वाहा
३ । ओं इह रमस्व स्वाहा
४ । ओंमयि धृतिः स्वाहा
५ । ओं मयि स्वधृतिः स्वाहा
६ । ओं मयि रतिः स्वाहा
७ । ओं मयि रमस्व स्वाहा
८ ”।
