सामग्री पर जाएँ

धृष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृष, आ कि अमर्षे । क्रोध इति यावत् । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) आ, धर्षितं धृष्टं तेन । कि, धर्षयति धर्षति । अमर्ष इह अभिभवः । इति भट्टमल्लः । न धर्षति निजाः प्रजाः । तमेव धर्षयत्येकं यस्तासु प्रतिकूलतीति हलायुधः । इति दुर्गादासः ॥

धृष, उ संहतौ । हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-संहतौ अकं-हिंसे सकं-सेट् । उदि- त्वात् क्त्रावेट् ।) उ, धर्षित्वा धृष्ट्वा । संहतिः । समूहः । इति दुर्गादासः ॥

धृष, क ङ शक्तिबन्धे । इति कविकल्पद्रुमः ॥ (चुरां-आत्मं-सकं-सेट् ।) शक्तेर्ब्बन्धनं शक्ति- बन्धः । क ङ, धर्षयते वह्निं पयः । इति दुर्गा- दासः ॥

धृष, ञि आ न प्रागल्भ्ये । इति कविकल्पद्रुमः ॥ (स्वां-परं-अकं-सेट् ।) ञि, धृष्टोऽस्ति । आ, धर्षितं धृष्टं तेन । न, धृष्णोति गुरोरग्रे यः । इति हलायुधः । इति दुर्गादासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृष¦ संहतौ अक॰ हिंसे सक॰ भ्वा॰ पर॰ सेट्। धर्षतिअधर्षीत्। दधर्ष उदित् धर्षित्वा धृष्ट्वा।
“धृषशसीवैयात्ये” पा॰ वैयात्ये एव अनिटोविधनात् क्त्वोवेट्कत्वेऽपि संहत्यर्थे बधार्थे च नित्यमिट्। धर्षितः

धृष¦ प्रागल्भ्ये स्वा॰ पर॰ अक॰ सेट्। धृष्णोति अधर्षीत्। दधर्ष।
“धृषशसी वैयात्ये” पा॰ निष्ठायामनिट्। धृष्टःअस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म। भावादि कर्म-णोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमिती-त्याह वृत्तिकारः”
“विभाषा भावकर्मणोरिति विकल्पेप्राप्ते सूत्रमिदं नित्यतार्थमित्याशङ्क्याह धृषिर्नास्तीति” तदर्थः” तत्त्व॰।
“आलोकयत् स काकुत्स्थमधृष्णोत् घोर-अध्वनत्” भट्टिः।
“तान् दृष्ट्वातिदृढान् धृष्टान् प्राप्तान्परिवृढाज्ञया” भट्टिः। [Page3907-b+ 38]

धृष¦ सामर्थ्यबन्धने चुरा॰ आत्म॰ अक॰ सेट्। धर्षयते अ-दीधृषत अदधर्षत। धर्षयाम् बभूव आस चक्रे
“कस्त्वाधर्षयितुं शक्तः” हरिवं॰

३१

५३ श्लो॰।

धृष¦ क्रोधे अभिभवे च वा चु॰ उभ॰ पक्षे भ्वा॰ प॰ सक॰ सेट्। धर्षयति ते धर्षति अदीधृषत् त अदधर्षत् त अधर्षीत्। धर्षयाम् भूव आस चकार दधर्ष।
“प्रहस्तस्य पुरोऽ-मात्यान् जिहिंसुर्दधृषुस्तथा” मट्टिः। दधृषुरभिभूतवन्तः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृष¦ r. 5th cl. (ञि आ) ञिधृषा (धृष्णोति) To be proud, to be confident or presumptuous. r. 1st and 10th cls. (धर्षति धर्षयतिते) To overcome, to overbear, to resist impatiently, to be impatient. (उ) धृषु r. 1st cl. (धर्षति)
1. To collect.
2. To hurt or kill. (ङ) धृषङ् r. 10th cl. (धर्षयते) To neutralise, paralyse or make powerless. प्रागल्भ्ये स्वा० प० अक० सेट् | संहतौ अक० हिंसे सक० भ्वा० प० सेट् | क्रोधे अभिभवे च वा चुरा उभ० पक्षे भ्वा० प० सक० सेट् | सामर्थ्यबन्धने चुरा० आत्म० अक० सेट् |

"https://sa.wiktionary.org/w/index.php?title=धृष&oldid=334692" इत्यस्माद् प्रतिप्राप्तम्