सामग्री पर जाएँ

धृष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृष्टः, त्रि, (धृष + क्तः ।) प्रगल्भः । इति मुग्ध- बोधव्याकरण्णम् ॥ (यथा, भागवते । ५ । १२ । ७ । “जनस्य गोप्तासि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ॥”) निर्लज्जः । तत्पर्य्यायः । धृष्णक् २ वियातः ३ । इत्यमरः । ३ । १ । २५ ॥ धृष्णुः ४ दधृक् ५ । इति त्रिकाण्डशेषः । धर्षितः ६ । इति शब्द- रत्नावली ॥ चतुर्विधपत्यन्तर्गतपतिविशेषे, पुं । तस्य लक्षणं यथा, “भूयो निःशङ्कः कृतदोषो- ऽपि भूयो निवारितोऽपि भूयः प्रश्रयपरायणः ।” इति रसमञ्जरी ॥ (चेदिवंशीयकुन्तेः पुत्त्रः । यथा, हरिवंशे । ३६ । २४ । “कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् ॥” सप्तममनोः पुत्त्रविशेषः । यथा, भागवते । ८ । १३ । २ । “मनुर्व्विवस्वतः पुत्त्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्त्तमानो यस्तदपत्यानि मे शृणु ॥ इक्षाकुर्नभगश्चैव धृष्टः शर्य्यातिरेव च ॥” धृष्णुरिति कुत्रापि दृश्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=धृष्टः&oldid=142907" इत्यस्माद् प्रतिप्राप्तम्