सामग्री पर जाएँ

धृष्णुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धृष्णुः, त्रि, (धृष्णोतीति । धृष् + “त्रसिगृधिधृषि- क्षिपेः क्नुः ।” ३ । २ । १४० । इति क्नुः ।) धृष्टः । इति त्रिकाण्डशेषः ॥ (यथा, ऋग्वेदे । ६ । २५ । ५ । “न हि त्वा शूरो न तुरो न धृष्णु- र्न त्वा योधो मन्यमानो युयोध ॥”) पुं, कञ्चिका । इति शब्दचन्द्रिका ॥ (वैवस्वत- मनुपुत्त्रः । यथा, हरिवंशे । १० । १ । “मनोर्वैवस्वतस्यासन् पुत्त्रा वै नव तत्समाः । इक्षाकुश्चैव नाभागो धृष्णुः शर्य्यातिरेव च ॥” सावर्णस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव । ७ । ६० । “वरिष्णुरार्य्यो धृष्णुश्च राजः सुमतिरेव च । सावर्णस्य मनोः पुत्त्रा भविष्या दश भारत ! ॥” चन्द्रवंशोद्भवकुकुरराजस्य सुतः । यथा, तत्रैव ३७ । १८ । “कुकुरस्य सुतो धृष्णुर्धृष्णोस्तु तनयस्तथा । कपोतरोमा तस्याथ तैत्तिरिस्तनयोऽभवत् ॥” कवेः पुत्त्रविशेषः । यथा, महाभारते । १३ । ८५ । १३३ । “कविः काव्यश्च धृष्णुश्च बुद्धिमानुशनास्तथा । भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्म्मवित् ॥ अष्टौ कविसुता ह्येते सर्व्वमेभिर्जगत्ततम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=धृष्णुः&oldid=142914" इत्यस्माद् प्रतिप्राप्तम्