सामग्री पर जाएँ

धेनुमूल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धेनुमूल्य¦ न॰

६ त॰। प्रायश्चित्तरूपधेनुदानस्य निष्क्रय-रूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा(
“अथ धेनुमूल्यव्यवस्था। संवर्त्तः
“प्राजापत्य-व्रताशक्तौ धेनुं दद्यात् पयस्विनीम्। धेनोरभावेदातव्यं तुल्यं मूल्यं न संशयः”। पयस्विनीमितिविशेषणं दुग्धोपयोगाय सा च वत्सं विना न सम्भवति। अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितंतन्मूल्यं तदभावे पुराणत्रयम्।
“द्वात्रिंशत्पणिकागावोवत्सः पौराणिको भवेत्” कात्यायनवचनात्। षटुत्रिंशन्मतमिति कृत्वा पठन्ति
“धेनुः पञ्चभिराद्यानांमध्यानां त्रिपुराणिकी। कार्षापणैकमूल्या हि दरि-द्राणां प्रकीर्त्तिता”। अत्र पुराणत्रयलभ्यं गोतमीक्तंहिरण्यादिकमेव देयं तद् यथा
“हिरण्यं गौर्वासो-ऽश्वोभूमिस्तिला घृतषन्नमिति देयानि”। एतान्येवा-नादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकंस्यात् इति” प्रायश्चित्तविवेकः। तच्चिन्त्यं हिरण्यंगौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं नतु गोमूल्यत्वेन ततश्च।
“द्वात्रिंशत्पणिका गावः” इत्यादि-वचनात् कार्षापणत्रयदानमेव युक्तम्। तत्र
“ताम्रिकःकार्षिकः पणः” इति याज्ञवल्क्यवचनेन
“गुञ्जाः पञ्चा-द्यमाषकः। ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतु-ष्टयं” इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रेपणशब्दः सङ्केतितः। स च तावत्संख्यकवराटकैर्लभ्यतइति वराटकेष्वपि तथा व्यवहारः। एतन्मूलकं भवि-ष्यमत्स्यसूक्तयोर्वचनम्।
“अशीतिभिर्वराटकैः पण इत्य-भिवीयते। पुराणं ते षोडशभिः रजतं सप्तभिस्तुनैः”। गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टेप्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादेरानुकल्पिकत्वमिति विशेषः। अतएव यमेन सामान्यतोदानमुक्तं यथा
“शोषणेन शरीरस्य तपसाऽध्ययनेनच। पापकृन्मुच्यते पापात् दानेन च दमनन च”। अतः कार्षापणत्रयलभ्यं रजतादि दीयते। यत्तु मिता-क्षरायाम्
“गवासभावे निष्कः स्याचदर्द्धं पादएव[Page3910-b+ 38] च” इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षयातत्रापि
“चतुःसौवर्णिको निष्क्रः” इति मनूक्तनिष्कस्यन ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्क-वत्। किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः।
“साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले” दीना-रेऽपि च निष्कोऽस्त्री” इति। दीनार उक्तो विष्णु-गुप्तेन
“दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमो भागोरोपक उच्यते”। सुवर्णस्त्वशी-तिरत्तिकापरिमितं हेम। तथा च मनुः।
“पञ्चकृष्ण-लकोमाषस्ते सुवर्णस्तु षोडश” इति अत्र काञ्चनं व्यक्त-माहामरसिंहः।
“सुवर्णविस्तौ हेम्नोऽक्षः” इति। एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्याद्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः” प्रा॰ त॰ रघु॰।

"https://sa.wiktionary.org/w/index.php?title=धेनुमूल्य&oldid=335044" इत्यस्माद् प्रतिप्राप्तम्