धैर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धैर्य्यम्, क्ली, (धीरस्य भावः कर्म्म वा । धीर + व्यञ् ।) धीरता । धीरस्य भाव इत्यर्थे ष्ण्य- प्रत्ययः ॥ तस्य लक्षणं यथा, -- “स्थिरचित्तोन्नतिर्या तु तद्धैर्य्यमिति कीर्त्त्यते ॥” इत्युज्ज्वलनीलमणिः ॥ (इदं नायकसत्त्वजगुणानामन्यतमः । यथा, साहित्यदर्पणे । ३ । ५८ । “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी । ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥” तल्लक्षणं यथा, तत्रैव । ३ । ६३ । “व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि ॥” उदाहरणं यथा, -- “श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसङ्ख्यानपरो बभूव । व्यात्मे श्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धैर्य्य¦ न॰ धीरस्य भावः कर्म वा ष्यञ्।
१ धृतौ
“स्थिराचित्तोन्नतिर्या तु तद्धैर्य्यमिति संज्ञितमिति” भूपालकोषः।
२ अप्रमादे
३ अत्याकुलत्वे
४ विघ्नाद्युपस्थितावपि प्रारब्धा-[Page3911-a+ 38] परित्यागहेतावन्तःकरणवृत्तिविशेषे।
५ निर्विकारचि-त्तत्वे।
“मनसो निर्विकारत्वं धैर्य्यं सत्स्वपि हेतुषु” एतदभिप्रायेण
“विकारहेतौ सति विक्रियन्ते येषां नचेतांसि तएव धीराः” इति कुमा॰ उक्तम्।
“कुर्य्यां हर-स्यापि पिनाकपाणेर्वैर्य्यच्युतिं के मम धन्विनोऽन्ये” कुमा॰।
“अवधीर्य धैर्यकलिता दयितम्” माघः।
६ नाय-कयोर्गुणभेदे धीरताशब्दे दृश्यम्।
७ पुरुषगुणभेदेयथा
“शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी। ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः” इत्युद्दिश्य
“व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि” सा॰ द॰ लक्षितम् उदाहृतञ्च
“श्रुताप्सरोगीतिरपिक्षणेऽणिन् हरः प्रसंख्यानपरो बभूव। आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति”। स्वार्थेघ्यञ्। पुरुषमेधयज्ञे
८ हौम्यदेवभेदे पु॰। तदुपक्रमे
“मेधायै रथकारं धैर्य्याय तक्षाणम्” यजु॰
३० ।
७
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धैर्य्य¦ n. (-र्य्यं) Steadiness, firmness. E. धीर firm. ष्यञ् aff.
