सामग्री पर जाएँ

धैवत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवतः, पुं, (धीमतामयम् । धीमत् + अण् । पृषो दरादित्वात् मस्य वत्वम् ।) सप्तस्वरान्तर्गत- षष्ठस्वरः । स तु नारदमते अश्वस्वरतुल्यः । (अश्वस्तु धैवतं रौतीति वचनात् ॥) तानसेन- मते भेकस्वरतुल्यः । अस्याच्चारणस्थानं लला- टम् । व्याकरणमते दन्तः । अयं क्षत्त्रियवर्णः । अस्य जातिः षाडवः । अस्य तानम् ७२० प्रत्येकतानम् ४८ समुदायेन ३४,५६० भवन्ति । इति संगीतशास्त्रम् ॥ “गत्वा नाभेरधोभागं वस्तिं प्राप्योर्द्ध्वगः पुनः । धावन्निव च यो याति कण्टदेशं स धैवतः ॥” अस्य श्रुतयस्तिस्रः । इति संगीतदामोदरः ॥ (यथा च सङ्गीतदर्पणे । १ । ५५ । “मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥” अस्य ऋषिकुले उद्भवः । क्षत्त्रियो जातिः । पीतो वर्णः । श्वेतद्वीपे जन्म । ऋषिस्तुम्बुरुः । गणेशो देवता । उष्णिक् छन्दः । वीभत्सभयानक- रसयोरूपयोगित्वम् । इति सङ्गीतदर्पणम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवत पुं।

धैवतस्वरः

समानार्थक:धैवत

1।7।1।1।6

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवत¦ पु॰ धीमतामयम् अण् पृषो॰। तन्त्रीकण्ठोत्थितसप्तस्वरेषु षष्ठे स्वरे तल्लक्षणं यथा
“गत्वा नाभेरधोभागंवस्तिं प्राप्योर्द्धगः पुनः। धावन्निव च यो यातिकण्ठं देशं स धैवतः” सङ्गीतदामो
“अश्वस्तु धैवतं रौति” सङ्गीतशास्त्रीक्तेरस्याश्वस्वरतुल्यत्वम्। अस्य च वायुभव-त्वेऽपि आकाशगुणत्वम् भा॰ शा॰

१८

४ अ॰ उक्तं यथा
“तत्रैकगुणमाकाशं शब्द इत्येव तत् स्मृतम्। तस्यशब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्। षड्ज-ऋषभगान्धारौ मध्यमो धैवतस्तथा। पञ्चमश्चापिविज्ञेयस्तथा चापि निषादवान्। एष सप्तविधः प्रोक्तोगुण आकाशसम्भवः। ऐश्वर्य्येण तु सर्वत्र स्थितोऽपिपटहादिषु। मृदङ्गभेरीशङ्खानां स्तनयित्नोरथस्य च। यः कश्चिच्छ्रूयते शब्दः प्राणिनोऽप्राणिनोऽपि वा। एतेषामेव सर्वेषां विषये संप्रकीर्त्तितः। एवं बहु-विधाकारः शब्द आकाशसम्भवः। आकाशजं शब्द-माहुरेभिर्वायुगुणैः सह। अव्याहतैश्चेतयते न वेत्तिविषमस्थितैः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवत¦ m. (-तः) The sixth note of the gamut. E. धी intellect, deriv. irr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवतः [dhaivatḥ], The sixth of the seven primary notes of the Indian gamut. गत्वा नाभेरधो भागं वस्तिं प्राप्योर्ध्वगः पुनः । धावन्निव च यो याति कण्ठदेशं स धैवतः ॥ Saṅgītadāmodara.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवत n. the sixth note of the gamut MBh. xii , 6859.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the deity over the स्वरमध्यम। वा. २१. ३९.

"https://sa.wiktionary.org/w/index.php?title=धैवत&oldid=431523" इत्यस्माद् प्रतिप्राप्तम्