सामग्री पर जाएँ

धैवतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवतः, पुं, (धीमतामयम् । धीमत् + अण् । पृषो दरादित्वात् मस्य वत्वम् ।) सप्तस्वरान्तर्गत- षष्ठस्वरः । स तु नारदमते अश्वस्वरतुल्यः । (अश्वस्तु धैवतं रौतीति वचनात् ॥) तानसेन- मते भेकस्वरतुल्यः । अस्याच्चारणस्थानं लला- टम् । व्याकरणमते दन्तः । अयं क्षत्त्रियवर्णः । अस्य जातिः षाडवः । अस्य तानम् ७२० प्रत्येकतानम् ४८ समुदायेन ३४,५६० भवन्ति । इति संगीतशास्त्रम् ॥ “गत्वा नाभेरधोभागं वस्तिं प्राप्योर्द्ध्वगः पुनः । धावन्निव च यो याति कण्टदेशं स धैवतः ॥” अस्य श्रुतयस्तिस्रः । इति संगीतदामोदरः ॥ (यथा च सङ्गीतदर्पणे । १ । ५५ । “मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः ॥” अस्य ऋषिकुले उद्भवः । क्षत्त्रियो जातिः । पीतो वर्णः । श्वेतद्वीपे जन्म । ऋषिस्तुम्बुरुः । गणेशो देवता । उष्णिक् छन्दः । वीभत्सभयानक- रसयोरूपयोगित्वम् । इति सङ्गीतदर्पणम् ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धैवतः [dhaivatḥ], The sixth of the seven primary notes of the Indian gamut. गत्वा नाभेरधो भागं वस्तिं प्राप्योर्ध्वगः पुनः । धावन्निव च यो याति कण्ठदेशं स धैवतः ॥ Saṅgītadāmodara.

"https://sa.wiktionary.org/w/index.php?title=धैवतः&oldid=335187" इत्यस्माद् प्रतिप्राप्तम्