ध्यानम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्यानम्, क्ली, (ध्यै + भावे ल्युट् ।) चिन्तनम् । (यथा, मनुः । १ । १२ । “तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥”) धारणाविषये एकप्रत्ययसन्ततिः । इति हेम- चन्द्रः । २ । २३४ ॥ अद्बितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरेन्द्रियवृत्तिप्रवाहः । इति वेदान्त- सारः ॥ * ॥ यथा, विष्णुपुराणे । “तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा । तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ! ॥” अस्यार्थः । “तद्रूपस्य धारणासिद्धस्य वस्तुनः प्रत्यया यस्यां सन्ततौ सा एकावच्छिन्ना सन्ततिः । अन्यनिस्पृहा विषयान्तरेणाव्यव- धीयमाना । विजातीयप्रत्ययान्तरितः सजातीय- प्रत्ययप्रवाहो ध्यानमित्यर्थः । तच्च प्रथमैर्यमा- दिभिर्धारणान्तैः षड्भिरङ्गैर्निष्पाद्यते ।” इति तट्टीका ॥ * ॥ श्रीकृष्ण उवाच । “सर्व्वे देवाः प्राकृतिका यावन्तो मूर्त्तिधारिणः । अहमात्मा नित्यदेही भक्तध्यानानुरोधतः ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डम् ॥ ब्रह्मचिन्ता । यथा, गारुडे ४९ अध्याये । “ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसो धृतिः । अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥” अपि च । “प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् । यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् । तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ॥ द्वाद्शध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः । तुष्टे तु स यतो मुक्तः समाधिः सोऽभिधीयते ॥ ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् । प्राप्यावधिकृतं कालं यावत् सा धारणा स्मृता ॥ ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति । नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥ ध्येये मनोनिश्चलतां याति ध्येयं विचिन्तयन् । यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥ ध्येयमेव हि सर्व्वत्र ध्याता तल्लबतां गतः । पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥” इति गारुडे २४० अध्यायः ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a dharma of the yoga, kills unrighteous qualities; फलकम्:F1: वा. १०. ७६ and ९३; १०४. २५.फलकम्:/F described by कृष्ण to Uddhava. फलकम्:F2: भा. XI. १४. ३२-46.फलकम्:/F
