ध्रुवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्रुवः, पुं, (ध्रुवति स्थिरीभवतीति । ध्रु + बाहुलकात् कः ।) शङ्कुः । हरः । (यथा, महाभारते । १३ । १७ । १०३ । “घाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”) विष्णुः । (यथा, महाभारते । १३ । १४९ । १९ । “विश्वकर्म्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥”) वटः । उत्तानपादजः । (अस्य विवरणन्तु पश्चात् द्रष्टव्यम् ॥) वसुभेदः । (यथा, मात्स्ये । ५ । २१ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”) योगभेदः । इति मेदिनी । वे, १३ ॥ (यथा, ज्योतिषे । “गण्डो वृद्धिर्ध्रुवश्चैव व्याघातो हर्षणस्तथा ॥”) स्थाणुः । इत्यमरः । २ । ४ । ८ ॥ शरारि- पक्षी । इति त्रिकाण्डशेषः ॥ ध्रुवकः । इति सङ्गीतदामोदरः ॥ * ॥ (रोहिणीगर्भे वसुदेवा- ज्जातः पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । ४६ । “बलं गदं सारणञ्च दुर्म्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत् ॥” पाण्डवपक्षीयः कश्चित् क्षत्त्रियवीरः । इति महाभारते । ७ । १५६ । ३७ ॥ नहुषस्य पुत्त्र- विशेषः । यथा, महाभारते । १ । ७५ । ३० । “यतिं ययातिं संयातिमायातिमयतिं ध्रुवम् । नहुषो जनयामास षट् सुतान् प्रियवाससि ॥” पुरुवंशीयरन्तिनावस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २० । ६ । पदाङ्गुष्ठेन संपीड्य यदा च वसुधां स्थितः । तदा समस्तवसुधा चचाल सह पर्व्वतैः ॥ भगवानपि सर्व्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ औत्तानपादे भद्रन्ते तपसा परितोषितः । वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ! ॥ ध्रुव उवाच । भगवन् सर्व्वभूतेश ! सर्व्वस्यास्ते भवान् हृदि । किमज्ञातं तव स्वामिन् ! मनसा यन्मयेप्सितम् ॥ नैतद्राजासनं योम्यमजातस्य ममोदरात् । इति गर्व्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥ आधारभूतं जगतः सर्व्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो ! स्थानं त्वत्प्रसादादतोऽव्ययम् ॥ श्रीभगवानुवाच । त्रैलोक्यादधिके स्थाने सर्व्वताराग्रहाश्रयः । भविष्यति न सन्देहो मत्प्रसादाद्भवान् ध्रुव ! ॥ सूर्य्यात् सोमात् तथा भौमात् सोमपुत्त्राद्बृह- स्पतेः । सितार्कतनयादीनां सर्व्वर्क्षाणां तथा ध्रुवम् ॥ सप्तर्षीणामशेषाणां ये च वैमानिकाः सुराः । सर्व्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ! ॥” इति विष्णुपुराणे १ अंशे ११ अध्यायः ॥ * ॥ ध्रुवयोगजातफलं यथा, -- “नरीनर्त्ति वाणी सदा वक्त्रपद्मे चरीकर्त्ति काव्यं बरीभर्त्ति बन्धून् । ध्रुवाख्ये प्रसूतिर्ध्रुवा तस्य कीर्त्ति- र्दिगन्ते नितान्तं भवेच्चारुमूर्त्तिः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ ध्रुवगणो यथा । उत्तरफल्गुनी १ उत्तराषाढा २ उत्तरभाद्रपद् ३ रोहिणी ४ । इति ज्योति- षम् ॥ * ॥ ताराविशेषः । यथा, -- “मेरोरुभयतो मध्ये ध्रुवतारे नभःस्थिते । निरक्षदेशसंस्थानामुभये क्षितिजाश्रिते ॥ भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः । पर्य्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥” इति सूर्य्यसिद्धान्ते १२ अध्यायः ॥
