ध्रुवकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्रुवकः, पुं, (ध्रुव + स्वार्थे कन् ।) स्थाणुः । इति हेमचन्द्रः । ४ । १८८ ॥ गीताङ्गविशेषः । धया इति भाषा । तस्य लक्षणं यथा, -- “उत्तमः षट्पदः प्रोक्तो मध्यमः पश्चमः स्मृतः । कनिष्ठश्च चतुर्भिः स्याद्ध्रुवकोऽयं मयोदितः ॥ उक्तं द्विखण्डमुद्ग्राहे द्विखण्डं ध्रुवके मतम् । ततो द्बिखण्डमाभोगे तालमानरसैः सह ॥ आभोगे कविनाम स्यात्तथा नायकनाम च । उद्ग्राहं प्रथमं गीत्वा ध्रवं गायेत्ततः परम् ॥ ततोऽन्तरा ध्रुवस्तस्मादाभोगध्रुवकौ ततः । उद्ग्राहः प्रथमः पादः कथितः पूर्ब्बसूरिभिः ॥ गीत्वा पूर्ब्बपदं न्यासो यत्र स ध्रुवको मतः । यत्रैव कविनाम स्यात् स आभोग इतीरितः ॥ ध्रुवकादिपु सर्व्वेषु भवेदेवंविधः क्रमः ॥” स तु षोडशविधः । यथा, -- “जयन्तः शेखरोत्साहौ मधुरो निर्म्मलस्तथा । कुन्तलः कमलश्चैव सानन्दश्चन्द्रशेखरः ॥ सुखदः कुमुदो जायी कन्दर्पो जयमङ्गलः । तिलको ललितश्चेति ध्रुवकाः षोडश स्मृताः ॥ एकादशाक्षरपदादेकैकाक्षरवर्द्धितैः । खण्डैर्ध्रवाः षोडश स्युः षड्विंशत्यक्षरावधि ॥ द्विगुणैरक्षरैरेव पदमेकमिहेष्यते । उद्ग्राहध्रुवकाभोगैरित्थं षट्पदनिर्णयः ॥ पञ्चपादे तु ध्रुवके पदेनैकेन तद्ध्रुवः । चतुष्पादे तु ध्रुवके पृथङ्नास्त्येव तद्ध्रुवः ॥” इति सङ्गीतदामोदरः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्रुवकः [dhruvakḥ], 1 The introductory stanza of a song (repeated as a sort of chorus); see ध्रुव.
A trunk, stem.
A post.
Polar longitude.
