सामग्री पर जाएँ

ध्रुवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ध्रुवम्, क्ली, (ध्रुवति स्थिरीभवतीति । ध्रु + “स्रुवः कः ।” उणां । २ । ६१ । इत्यत्र । “बाहुलकात् ध्रु स्थैर्य्ये अतोऽपि कः ।” इत्युज्ज्वलदत्तोक्त्या कः ।) निश्चितम् । (यथा, शाकुन्तले १ अङ्के । “ध्रुवं स नीलोत्पलपत्रधारया शमीलतां च्छेत्तुमृषिर्व्यवस्यति ॥”) तर्कः । इति मेदिनी । वे, १३ ॥ आकाशम् । इति हेमचन्द्रः ॥

ध्रुवम्, त्रि, (ध्रु गतिस्थैर्य्ये + बाहुलकात् कः ।) सन्ततम् । शाश्वतम् । इति मेदिनी । वे, १३ ॥ स्थिरम् । निश्चितम् । इति हेमचन्द्रः । ६ । ८९ ॥ (यथा, चाणक्यशतके । ६३ । “यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I) (च्)--adjoining the वैभ्राज hill in प्लक्षद्वीप. Br. II. १४. ३९; १९. १६; वा. ४९. १४. [page२-189+ २७]
(II)--a Sukha god. Br. IV. 1. १९.
(III)--same as महाद्रुम. M. १२२. २५.
(IV)--a mukhya गण. वा. १००. १९.
"https://sa.wiktionary.org/w/index.php?title=ध्रुवम्&oldid=431535" इत्यस्माद् प्रतिप्राप्तम्