ध्रुवावर्त्त
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्रुवावर्त्त¦ पु॰ ध्रुव संज्ञक आवर्त्तः रोमसंस्थानभेदः। ध्रुवश-ब्दोक्तः। अश्वानां रोमसंस्थानभेदे तस्य स्थानविशेषेणफलं वृ॰ सं॰
६६ अ॰ उक्तं यथा
“अश्रुपात हनुगण्डहृद्गल प्रोथ शङ्खकटिवस्ति जानुनि। मुष्कनाभिककुदे तथा गुदे सव्यकुक्षिचरणेषु चाशुभाः। ये प्रपाणगलकर्णसंस्थिताः पृष्ठमध्यनयनोपरिस्थिताः। ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशो-भनाः। तेषां प्रपाण एको ललाटकेशेषु च ध्रुवावर्त्तः। रन्ध्रोपरन्ध्रमूर्धनि वक्षसि चेति स्मृतौ द्वौ द्वौ”।
