सामग्री पर जाएँ

ध्र्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूः, [र्] स्त्री, (धुर्व्वतीति । धुर्व्व + क्विप् ।) यानमुखम् । रथादेरग्रभागः । इत्यमरः । २ । ८ । ५५ ॥ (यथा, महाभारते । १ । १३६ । २१ । “क्षणात् प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ॥”) भारः । (यथा, रघुः । १ । ३४ । “तेन धूर्जगतो गुर्व्वी सचिवेषु निचिक्षिपे ॥”) चिन्ता । इत्येकाक्षरकोषः ॥ (अग्रम् । यथा, रघुः । २ । २ । “अपांशुलानां धुरि कीर्त्तनीया ॥” हिंसके, त्रि । यथा, ऋग्वेदे । १० । ९४ । ७ । “दशधुरो दशयुक्ता वहद्भ्यः ॥” “दशभिर्धुरो धूर्भिर्हिंसितृभिः । तृतीयार्थे प्रथमा ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=ध्र्&oldid=142770" इत्यस्माद् प्रतिप्राप्तम्