ध्वजभङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वजभङ्गः, पुं, (ध्वजस्य मेढ्रस्य भङ्गः ।) क्लीवत्व- जनकरोगविशेषः । तस्य निदानं यथा, -- “अत्यम्ललवणक्षारविरुद्धाशनभोजनात् । तथाम्बुपानाद्बिषमात् पिष्टान्नगुरुभोजनात् ॥ दधिक्षीरानूपमांससेवनाद्ब्याधिकर्षणात् । कल्याणीगमनाच्चापि वियोनिगमनादपि ॥ दीर्घरोम्नीं चिरोत्सृष्टां तथैव च रजस्वलाम् । दुर्गन्धां दुष्टयोनिञ्च तथैव च परिसुताम् ॥ ईदृशीं प्रमदां मोहात् यदि गच्छति मानवः चतुःपदाभिगमनाच्छेफसश्चाभिघाततः । अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात् ॥ काष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात् । रेतसश्च प्रतीघातात् ध्वजभङ्गः प्रवर्त्तते ॥” इति चरकः ॥ * ॥ तस्य चिह्नं यथा, -- “शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा । तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव च ॥” इति वाभटः ॥ * ॥ अपि च । “तैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षते । ध्वजः पतत्यधो नॄणां क्लैव्यं सद्यः प्रजायते ॥ भक्ष्यैरम्लोष्णलवणैरतिमात्रोपसेवितैः । सौम्यधातुक्षयाद्दुष्टः क्लैव्यं तदपरं स्मृतम् ॥ अतिव्यवायशीलो यो न च वाजिक्रियारतः । ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥ असाध्यं सहजं क्लैव्यं मर्म्मच्छेदोद्भवञ्च यत् । असाध्यानां विशिष्टानां कार्य्यो वाजिकरो विधिः ॥ तस्य चिकित्सा यथा, वैद्यके । “सुवर्णासुवत्साशुभाधेनुधन्या- घृतं योगयोगे प्रशस्तं सप्रस्थम् । मृदौ वा दराग्नौ पचेत् पाकशूर- स्तदा तेजपत्रं हरिद्रासुपिष्टम् ॥ विधौ शुद्धिहेतौ समुस्तं सुपिष्टं विधेयं सुगन्धाय वृद्धोपदेशात् । समूलाश्वगन्धासप्रस्थं विचूर्णं शुभं वारि दत्त्वा गुणं वेदयुक्तम् ॥ यदा शेषभूतं तदा योगयोगे पचेत् पाकविज्ञो भृशं दर्व्विचालात् । पचेद्गाविदुग्धं घृतस्यापि तुल्यं विदारीं सप्रस्थां तथा तेन वैद्यः ॥ तथा शाल्मलीतोयदत्तं सप्रस्थं वितार्य्यावतिष्ठेद्घृतं योगराजः ॥”
