ध्वनि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनिः, पुं, (ध्वननमिति । ध्वन + “खनिकष्यञ्ज्य- सीति ।” उणां ४ । १३९ । इति इः ।) शब्दः । इत्यमरः । १ । ७ । २२ ॥ मृदङ्गादिशब्दः । यथा, -- “शब्दो ध्वनिञ्च वर्णश्च मृदङ्गादिभवध्वनिः । कण्ठसंयोगजन्मानो वर्णास्ते कादयो मताः ॥” इति भाषापरिच्छेदः ॥ (धन्यतेऽस्मिन्निति । ध्वन + अधिकरणे इः ।) उत्तमकाव्यम् । यथा, -- “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥” इति काव्यप्रकाशः ॥ (यथाच साहित्यदर्पणे । ४ । २ -- ३ । “वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत् काव्यमुत्तमम् । वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे धन्यतेऽस्मि- न्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ॥ भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं वाधित- स्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः । अतएवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्य- निष्ठम् । अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नव व्यङ्ग्यार्थस्य प्रकाशकः । यथा प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चान्निर्द्देशः ॥” अस्य बहवो भेदाः सन्ति । ते तु तत्रैव चतुर्थ- परिच्छेदे विस्तरशो द्रष्टव्याः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनि पुं।
शब्दः
समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष
1।6।22।2।4
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥
: मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्
पदार्थ-विभागः : , गुणः, शब्दः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनि¦ पु॰ ध्यन--इन्।
१ मृदङ्गादिशब्दे
“शब्दो ध्वनिश्चवर्णश्च मृदङ्गादिभबो ध्वनिः। कण्ठसंयोगजन्मानोवर्णाद्याः कादयो मताः” माषा॰। शब्दविशेषस्य ध्वन्या-त्मकता शब्दार्थरत्नेऽस्माभिर्व्यवस्थापिता यथा
“स चशब्दः द्विविधः बुद्धिहेतुरबुद्धिहेतुश्च। तत्राबुद्धिहेतु-र्म्मेथादिशब्दः बुद्धिहेतुश्च द्विविधः। स्वाभाविकः काल्प-निकश्च उभयत्रापि ध्वनेवरुपकारकत्वात् ध्वन्यात्मकता। तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदिता-दिरूपः प्राणिमात्रसाधारणः। काल्पनिकोऽपि त्रिविधःवाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च। तत्र भेरीशब्दा-दिरूपोवाद्यरूपः माधवादिरागाभिव्यञ्जकनिषादादि-स्वररूपो गीतिरूपः ध्वनिविशेषसहकृतकण्ठताल्वाद्यभि-घातजन्यश्च वर्णात्मकः।
“ध्वनिर्नाम यो दूरादाकर्णवतोवर्णविशेषमनधिगच्छतः कर्णपथमवतरति प्रत्यासीदतश्चतारत्वादिविशेषमवगमयतीति” शारीरकभाष्योक्तेस्तारत्वा-दिधीहेतुर्ध्वनिरित्यवसेयम्। जिह्वाया ईषदन्तरपातेवर्णानामनुत्पत्तेर्ध्वन्युपलम्भात् हसितरुदितादौ वर्णोत्-पत्तिमन्तरेणैव तत्प्रतीतेश्च सर्वशब्दजनकता ध्वनेरव-सीयते। ” तद्भेदस्वरूपादिकं तत्रैव स्थानान्तरेऽस्याभिर्निर्णीतं यथा[Page3922-b+ 38](
“तस्य स्फोटस्याभिव्यक्तौ प्राकृतस्य ध्वनेः कारणत्वंचिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनेरितिबिवेकः। तथा च वाक्यपदीये
“स्फोटस्य ग्रहणे हेतुःप्राकृतो ध्वनिरिष्यते” इति।
“स्थितिभेदे निमित्तत्वंवैकृतः प्रतिपद्यते” इति च। स्थितिभेदे चिरचिरतरका-लस्थितौ ध्वनिस्तु पूर्वलक्षितः। तस्य च स्फोटस्य नित्यतया ध्वनिगतह्रस्वदीर्घादिकालस्य तत्रोपचारः। प्रति-पादितञ्च तथैव वाक्यपदीये
“स्फोटस्याभिन्नकालस्यध्वनिकालानुपातिनः। स्वभावतस्तु नित्यत्वात् ह्रस्वदीर्घ-प्लुतादिषु। प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्य्यते”। शब्दस्य स्फोटस्य नित्यतया अभिन्नकालस्य ह्रस्वदीर्घा-दिषु प्राकृतध्वनेः कालः तारत्वादिधीहेतुरुपचर्य्यतेइति तदर्थः। एवञ्च विलम्बितोच्चारणस्थले तचद्व-र्णानां तद्वोथजनितसंस्काराणां वा बहुक्षणपर्य्यन्तस्थायित्वकल्पनामपेक्ष्य एकस्यैव शब्दस्यामिव्यक्त्यनन्तरंजायमानेन वैकृतेन ध्वनिना बहुकालस्थितिकल्पने ला-धवमित्यपि द्रष्टव्यम्। भेरीशब्दादौ च ध्वन्यभिव्यक्त्य-नन्तरं जायमानप्राकृतध्वनेर्बहुकालस्थायित्वदर्शनेन अ-त्रापि तथाकल्पनौचित्यात्। अतएव महाभाष्ये
“एवंतर्हि स्फोटः शब्दोध्वनिः शब्दगुणैत्यादिना” ऽभिव्यक्त्यु-पकारकत्वेन ध्वनेः स्फोटरूपशब्दगुणत्वमभिहितमभि-हितञ्च ध्वनेर्ह्रस्वदीर्थत्वेनापि भानम्। यथा
“ध्वनिःस्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते। ह्रस्वोमहांश्चकेषाञ्चित् स्वयं नैव स्वभावत” इति। न स्वभावतस्तद्रूपेणस्फोटोलक्ष्यतैत्यर्थः। ध्वनिविकारे च वायुसंयोगवि-शेषस्य हेतुत्वं तस्य बहुकालस्थायित्वे विलम्बितत्वम्अल्पकालस्थायित्वे द्रुतत्वमिति विवेकः।
३ उत्तमकाव्ये
“इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः” काव्यप्रका॰
“इदं काव्यं बुधैर्वैयाकरणैः प्रथानभूतस्फोटरूपव्यङ्ग्य-व्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः तत-स्तन्मतानुसारिभिरन्यैरपि न्यम्भावितवाच्यव्यङ्ग्यव्यञ्जन-क्षमस्य शब्दार्थयुगलस्य” वृत्तिः।
“इदमिति वाच्यादति-शयिनि वाच्यादधिकास्वाद्ये व्यङ्ग्ये सति इदं काव्यमुत्तमं तदेव च बुधैर्ध्वनिः कथित इत्यर्थः। ननु ध्वनिपरिमाषा क्वापि केनापि न कृता तत्कथमलङ्कारशास्त्रे सा कृतेति आकाङ्क्षायां वैयाकरणरूपबुधसंवादंदर्शयन् व्याचष्टे बुधैः वैयाकरणैरिति एवञ्च सेयं[Page3923-a+ 38] कारिकास्थबुधपदव्याख्येत्यबधेयम्। अत्रायमर्थः अनेक-वर्णात्मकस्य कलसादिपदस्य प्रत्यक्षं न सम्भवति आशु-विनाशिनां क्रमिकाणां वर्णानां मेलकाभावेन तन्मे-लात्मनः पदस्य ग्रहीतुमशक्यत्वात्। न च प्रत्येक-वर्णानुभवजन्यसंस्कारैः सकलवर्णात्मनः पदस्य समूहा-लम्बनस्मृतिरेव{??}यामिकमतसिद्धास्त्विति वाच्यं वर्णप-दयोरेकदेशैकदेशिभावेन भिन्नत्वात् वर्णविषयसंस्कारैःपदस्मरणजननस्याशक्यत्वादित्यभिप्रायवद्भिर्वैयाकरणैःपूर्वपूर्ववर्णानुभवजनितसंस्कारसहितेनानुभूयमानचरमव-र्णेन श्रोत्रे व्यञ्जनाख्योघ्यापारोजन्यते तेनैव व्यापा-रेण नष्टवर्णघटितमपि पदं स्फीटपरिभाषितं श्रोत्रेणसाक्षात् क्रियते इत्युच्यते। तदाह बुधैः वैयाकरणै-रिति अर्थप्रत्यायकत्वादेकदेशित्वाच्च पदं वर्णापेक्षयाप्रधानभूतं स्फोटसंज्ञकञ्च। तद्रूपव्यङ्ग्यव्यञ्जकस्य शब्दस्यचान्त्यवर्णात्मन इत्यर्थः। अतस्तन्मतेऽपि चरमवर्णात्मनिशब्दे तेषां ध्वनिव्यवहारः आलङ्कारिकाणामपिकाव्यात्मनि शब्दे ध्वनिव्यवहार इति शब्दे व्यवहार-साम्यान्मतानुसरणम्” महेश्वरः। ध्वनिभेदाश्च काव्यशब्दे
२०
२४ ।
२५ पृ॰ दृश्याः। शब्दभेदध्वन्याद्युत्पत्तिप्रकारादिकं सारदाति॰ उक्तं यथा
“सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी विभुः। शक्तिंततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका। ततोऽर्द्धेन्दुस्ततोविन्दुस्तस्मादासीत् परा ततः। पश्यन्ती मध्यमा वाचांवैखरी ज्ञानजन्मभूः”। सा कुण्डलिनी शक्तिं प्रसूते। ततः शक्तेर्ध्वनिरासीत् ततस्तस्माद्ध्वनेर्नाद इत्यादि ज्ञे-यम्। सत्वप्रविष्टा चित् शक्तिशब्दवाच्या परमाकाशावस्थासैव सत्वप्रविष्टा रजोऽनुविद्धा सती ध्वनिशब्दवाच्याअक्षरावस्था, सैव तमोऽनुविद्धा नादशब्दवाच्या अव्यक्ता-वस्था सैव तमःप्राचुर्य्यात् निरोधिकाशब्दवाच्या सैवसत्वप्राचुर्य्यात् अर्द्धेन्दुशब्दवाच्या तदुभयसंयोगाद्विन्दु-शब्दवाच्यः सएव विन्दुः स्थानान्तरगतः पराख्यो भवति। तत्र परा मूलाधारे, पश्यन्ती स्वाधिष्ठाने, मध्यमाहृदये, वैखरी मुखे। तदुक्तं
“सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रस्वरूपिणी। स्वयंप्रकाशा पश्यन्तीसुषुम्णामाश्रिता भवेत्। अश्रोत्रविषया तस्मादुद्गच्छ-त्यूर्द्ध्वगामिनी। ततः संकल्पमात्रात् स्याद्देवि! तत्रोर्द्ध्व-गामिनी। सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी। सैवोरःकण्ठतालुस्था शिरोध्राणरदादिगा। जिह्वा-[Page3923-b+ 38] मूलोष्ठनिष्णाता सैव वर्णपरिग्रहा। शब्दप्रपञ्चजननीश्रोत्रग्राह्या तु वैखरी” पदार्था॰ राघवभट्टः।
“ध्वनिभृता निभृताक्षरमुज्जगे” माघः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनि¦ m. (-निः)
1. Sound.
2. Figurative or poetical style.
3. The sound of a drum. E. ध्वन् to sound, इन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनिः [dhvaniḥ], [ध्वन्-इन्]
Sound, echo, noise in general; मृदङ्गधीरध्वनिमन्वगच्छत् R.16.13;2.72;4.72; U.6.17. शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः Bhāṣa. P.; स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते Vāk. P.
Tune, note, tone; Śi.6.48.
The sound of a musical instrument;न
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनि m. sound , echo , noise , voice , tone , tune , thunder AV. etc.
ध्वनि m. the sound of a drum W.
ध्वनि m. empty sound without reality MW.
ध्वनि m. a word L.
ध्वनि m. allusion , hint , implied meaning , poetical style Sa1h.
ध्वनि m. N. of wk.
ध्वनि m. N. of one of the विश्वेदेवाs VP.
ध्वनि m. of a son of the वसुआपib.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a सुधामान god. Br. II. ३६. २७.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DHVANI : The son of Āpa who is one of the eight Vasus. Āpa had four sons called Vaitaṇḍa, Śrama, Śānta and Dhvani. (Viṣṇu Purāṇa, Āṁśa 1, Chapter 15).
_______________________________
*12th word in right half of page 240 (+offset) in original book.