सामग्री पर जाएँ

ध्वनिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ध्वनिः, पुं, (ध्वननमिति । ध्वन + “खनिकष्यञ्ज्य- सीति ।” उणां ४ । १३९ । इति इः ।) शब्दः । इत्यमरः । १ । ७ । २२ ॥ मृदङ्गादिशब्दः । यथा, -- “शब्दो ध्वनिञ्च वर्णश्च मृदङ्गादिभवध्वनिः । कण्ठसंयोगजन्मानो वर्णास्ते कादयो मताः ॥” इति भाषापरिच्छेदः ॥ (धन्यतेऽस्मिन्निति । ध्वन + अधिकरणे इः ।) उत्तमकाव्यम् । यथा, -- “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥” इति काव्यप्रकाशः ॥ (यथाच साहित्यदर्पणे । ४ । २ -- ३ । “वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत् काव्यमुत्तमम् । वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे धन्यतेऽस्मि- न्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ॥ भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ । अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं वाधित- स्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः । अतएवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्य- निष्ठम् । अत्र हि वाच्योऽर्थः स्वरूपं प्रकाशयन्नव व्यङ्ग्यार्थस्य प्रकाशकः । यथा प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चान्निर्द्देशः ॥” अस्य बहवो भेदाः सन्ति । ते तु तत्रैव चतुर्थ- परिच्छेदे विस्तरशो द्रष्टव्याः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

ध्वनिः [dhvaniḥ], [ध्वन्-इन्]

Sound, echo, noise in general; मृदङ्गधीरध्वनिमन्वगच्छत् R.16.13;2.72;4.72; U.6.17. शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः Bhāṣa. P.; स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते Vāk. P.

Tune, note, tone; Śi.6.48.

The sound of a musical instrument;न

"https://sa.wiktionary.org/w/index.php?title=ध्वनिः&oldid=337108" इत्यस्माद् प्रतिप्राप्तम्