ध्वनितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ध्वनितः, त्रि, (ध्वन्यते स्मेति । ध्वन + क्तः ।) शब्दितः । कृतस्वनमृदङ्गादिः । इति भरतः ॥ तत्पर्य्यायः । स्वनितः २ । इत्यमरः । ३ । १ । ९४ ॥ (यथा, राजतरङ्गिण्याम् । २ । ८९ । “समीरणसमाकीर्णमुण्डरन्ध्राग्रनिर्गतैः । ध्वनितैरनुशोचन्तमिवावस्थां तथाविधाम् ॥”) ध्वनिकाव्ययुक्तवाक्यादिश्च ॥
