नक्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तम्, [म्] व्य, रजनौ । इत्यमरः । ३ । ४ । ६ ॥ (यथा, माघे । १ । २१ । “रथाङ्गपाणेः पटलेन रोचिषा- मृषित्विषः संवलिता विरेजिरे । चलत्पलाशान्तरगोचरास्तरो- स्तुषारमूर्त्तेरिव नक्तमंशवः ॥”)

नक्तम्, क्ली, (नज + क्तः ।) रात्रिः । लक्षणया नक्तव्रतम् । यथा, -- “उपवासात् परं भैक्षं भैक्षात् परमयाचितम् । अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत् ॥ देवैस्तु भुक्तं पूर्ब्बाह्णे मध्याह्ने ऋषिभिस्तथा । अपराह्णे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः ॥ सर्व्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम् । वामाचारो महादेवो नक्तेनैवोद्धरेन्नृणाम् ॥” इति देवीपुराणम् ॥ व्रतविशेषः । यथा, -- “दशम्याञ्चैकभक्तन्तु शुद्धचित्तो दृढव्रतः । नक्तं वापि तथा कृत्वा दशम्यां नियतः सदा ॥ क्रियते चासमर्थेन नक्तमेकादशीदिने । नक्ते चापि विधिः प्रोक्तः फलाहारे तथैव च ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तच्च विजानीयात् न नक्तं निशि भोजनम् ॥ नक्षत्रदर्शनान्नक्तं गृहस्थेन विधीयते । यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम् ॥” इति मात्स्ये एकादशीमाहात्म्यम् ॥ * ॥ अथ नक्तव्रतम् । “तथा च स्कन्दपुराणे । ‘प्रदोषव्यापिनी ग्राह्या सदा नक्तद्रते तिथिः । उदयात्तु तदा पूज्या हरेर्नक्तव्रते तिथिः ॥’ नियमश्च सामान्यव्रतधर्म्मत्वेनोक्तः । ‘ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम् ॥’ इत्यादिर्ग्राह्यः ॥ नक्तलक्षणञ्च भविष्यदेवीपुराणयोः । ‘हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्तभोजी सदाचरेत् ॥’ एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण- वचने नक्तमिति हविष्यान्नादिभोजनस्य काल- परं न तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरु- व्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यान्नोप- देशानुपपत्तेः । स्मृतिः । ‘नक्तं निशायां कुर्व्वीत गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव कुर्य्यात्तत् सदिवाकरम् ॥ सदिवाकरन्तु तत् प्रोक्तमन्तिमे घटिकाद्वये । निशानक्तन्तु विज्ञेयं यामार्द्धे प्रथमे सदा ॥’ मार्कण्डेयः । ‘एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन दानेन नैवाद्बादशिको भवेत् ॥’ अत्र विष्णुपूजापारणयोरङ्गान्तरापेक्षया प्राधा- न्यमवगम्यते । आनुकल्पिकेऽपि आवश्यक- त्वात् ।” इत्येकादशीतत्त्वम् ॥ * ॥ सौरनक्तकालो यथा, -- “कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे । भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा ॥” इति विधानसप्तमीप्रकरणे तिथ्यादितत्त्वम् ॥ (महादेवः । यथा, महाभारते । १३ । १७ । ९३ । “नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥” पुं, पृथोः पुत्त्रः । यथा, ब्रह्माण्डे । ३६ । “पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तम् अव्य।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

3।4।6।1।3

दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि। तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तम्¦ अव्य॰ नज--व्रीडे वा॰ तमु। रात्रौ अमरः।
“तुषारमूर्त्तेरिव नक्तमंशवः” मावः।
“महोषधीर्नक्तमिवात्म-भासः” कुमा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तम् [naktam], ind. At night, by night; गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् Me.39; Ms.6.19.

Comp. चरः any animal that goes about at night.

a fiend, demon, goblin. सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् Rāmarakṣā 3.

a thief. -चर्या wandering by night. नक्तंचर्यां दिवास्वप्नम् आलस्यं पैशुनं मदम् । अतियोगमयोगं च श्रेयसो$र्थी परित्यजेत् ॥ Mb.-चारिन् m. = नक्तचारिन् q. v. -तन a. nocturnal; इदं नक्तंतनं दाम पौष्पमेतद् दिवातनम् Bk.6.13. -दिनम् night and day. -दिनम्, -दिवम् ind. night and day. नक्तंदिनं विभुज्योभौ शीतोष्णकिरणाविव.

"https://sa.wiktionary.org/w/index.php?title=नक्तम्&oldid=338025" इत्यस्माद् प्रतिप्राप्तम्