नगरमार्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नगरमार्ग¦ पु॰
६ त॰। राजमार्गे तत्करणप्रकारादि औशन-सनीति परिशिष्टे उक्तं यथा
“राजमार्गास्तु कर्त्तव्या-चतुर्दिक्षु नृपालयात्। उत्तमो राजमार्गस्तु त्रिंशद्धस्त-मिता भवेत्। मध्यमो षिंशतिकरो दशपञ्चकरोऽधमः। पण्यमार्गास्तथा चैत्ये पुरग्रामादिषु स्थिताः। करत्रया-त्मिका पद्या वीथिः पञ्चकरात्मिका। मार्गो दशकरःप्रोक्तो ग्रामेषु नगरेषु च। प्राक्पश्चाद्दक्षिणोदक्स्थान्ग्राममध्यात् प्रकल्पयेत्। पुरं दृष्ट्वा राजमार्गान् सुबहून्कल्पयेन्नृपः। न वीधिं न च पद्यां हि राजधान्यांप्रकल्पयेत्। षड्योजनान्तरेऽरण्ये राजमार्गन्तथो-त्तमम्। कल्पयेद् मध्यमं मध्ये तयोर्मध्ये तथाऽधमम्{??}दशहस्तीत्मकं नित्यं ग्रामे ग्रामे नियोजयेद्। कूर्म-पृष्ठा मार्गभूमिः कार्य्या ग्राम्यैः सुपेतुका। कुर्य्यान्मा-र्गान् पार्श्वखातान् निर्गमार्थं जलस्य च। राजमार्ग-मुखानि स्युर्गृहाणि सकलान्यपि। गृहपूर्वे सदावीथिं मलनिर्हरणस्थलम्। पङ्क्तिद्वयगतानोह गृ-हाणि कारयेत् तथा। भार्गान् सुधाकर्करैर्वा घटितान्प्रतिवत्सरम्। अभियुक्तनिरुद्धैर्वा कुर्य्याद्ग्रामजनै-र्नृपः। ग्रामद्वयान्तरे चैव पान्त्रशालां प्रकल्पयेत्। नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम्। तत्रा-गतं तु संपृच्छेत् पान्यं शालाधिपः सदा। प्रयातोऽसिकुतः स्यानात् क्व गमित्यसि तत् वद। ससहायोऽसहायोवा सश{??}ः कि{??}हनः। का जातिः किं कुलं नाम[Page3937-b+ 38] स्थितिः कुत्रास्ति ते चिरम्। इति पृष्ट्वा लिखेत् सायंशस्त्रं तस्य प्रगृह्य च। सावधानमना भूत्वा स्वापंकुर्वीत स्वापयेत्। तत्रस्थान् गणयित्वा तु शालाद्वारंपिधाय च। संरक्षयेद् यामिकैस्तु प्रभाते तान् प्रबो-धयेत्। अजानरवृषाश्वोष्ट्रगजेभ्यः क्रमतो हरेत्। भृतिं पणार्द्धवृद्ध्या तु रक्षार्थं मार्गशालयोः। शस्त्रंदद्याच्च गणयेत् द्वारमुद्द्वाट्य मोचयेत्। कुर्य्यात् सहायंसीमान्तं तेषां ग्रामजनं सदा”।
