सामग्री पर जाएँ

नगरादिसन्निवेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नगरादिसन्निवेश¦ पु॰

१०

६ अ॰ अग्निपु॰ उक्तप्रकारे नग-रादिस्थापने यथा
“ईश्वर उवाच नगरादिकवास्तुञ्च राज्यादिकविवृद्धये। योजनं योजनार्द्धं वा तदर्द्धं स्थानमाश्रयेत्। अभ्यर्च्यवास्तुनगरं प्राकाराद्यन्तु कारयेत्। ईशादित्रिंशत्पदकेपूर्वद्वारं च सूर्यके। गन्धर्वाभ्यां दक्षिणे स्याद्वारुणेपश्चिमे तथा। सौम्यद्वारं सौम्यपदे कार्या हट्टाः सुवि-स्तराः। येनेभादि सुखं गच्छेत् कुर्याद्द्वारं तु षट्करम्। छिन्नकर्णं विभिन्नञ्च चन्द्रार्द्ध्वाभं पुरं न हि। वज्रसूची-मुखं नेष्टं सकृद् द्वित्रिसमागमम्। चापाभं वज्रनागाभंपुरारम्भे हि शान्तिकृत्। प्रार्च्य विष्णुहरार्कादी-न्नत्वा दद्याद् बलिं बली। आग्नेये स्वर्णकर्मारान्पुरख विनिवेशयेत्। दक्षिणे नृत्यवृत्तीनां वेश्या-स्त्रीणां गृहाणि च। नटानाञ्चक्रिकादीनां कैवर्त्तादेश्च नैरृते। रथानामायुधानाञ्च कृपणानाञ्च वारुणे। शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः। ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे। फलान्ना-दिविक्रयिण ईशाने च वणिग्जनाः। पूर्वतश्च बला-ध्यक्षा आग्नेये विविधं बलम्। स्त्रीणामादेशिनो दक्षेकाण्डीरान्नैरृते न्यसेत्। पश्चिमे च महामात्यान्कोषपालांश्च कारुकान्। उत्तरे दण्डनाथांश्च नायक-द्विजसङ्कुलान्।{??} क्षत्रियान् दक्षे वैश्यान् शूद्रांश्चषश्चिमे। दिक्षुवैद्यान् वाजिनश्च बलानि च चतुर्दिशम्। पूर्वेण सुरलिङ्गादीन् श्मशानादीनि दक्षिणे। पश्चिमेगोधनाद्यञ्च कषिकर्तॄंस्तथोत्तरे। न्यसेत् म्लेच्छांश्चकोणेषु ग्रामादिषु तथा स्थितिम्। श्रियं वैश्रवणं द्वारिपूर्वे तौ पश्यतां श्रियम्। देवादीनां पश्चिमतः पूर्वा-[Page3938-a+ 38] स्यानि नृहाणि हि। पूर्वतः पश्चिमास्यानि दक्षिणेचोत्तराननान्। नाकेशविष्ण्वादिधाम रक्षार्थंनगरस्य च। निर्द्दैवतन्तु नगरग्रामदुर्गगृहादिकम्। भुज्यते तत् पिशाचाद्यैरोगाद्यैः परिभूयते। नग-रादि सदैवं हि जयदं भुक्तिमुक्तिदम्। पूर्वायां श्रीगृहंप्रोक्तमाग्नेय्यां वै महानसम्। शयनं दक्षिणस्यान्तुनैरृत्यामायुधाश्रयम्। भोजनं पश्चिमायान्तु वायव्यांधान्यसङ्गहः। उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृ-हम्। चतुःशालं त्रिशालं वा द्विशालं चैकशालकम्। चतुःशालगृहाणान्तु शालालिन्दकभेदतः। शत-द्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि। त्रिशालानि तुचत्वारि द्विशालानि तु पञ्चधा। एकशालानि चत्वारिएकालिन्दानि वच्मि च। अष्टाविंशदलिन्दानि गृहाणिनगराणि च। चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु। षडलिन्दानि विंशच्च अष्टाभिर्विंशदेव हि। अष्टा-लिन्दं भवेदेवं नगरादौ गृहादिषु” गृहशब्दे दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=नगरादिसन्निवेश&oldid=339356" इत्यस्माद् प्रतिप्राप्तम्