नग्नः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नग्नः, त्रि, (नजते स्मेति । ओ नज ह्नियि + अक- र्म्मकत्वात् कर्त्तरि क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) विवस्त्रः । नेंटो इति भाषा ॥ तत्पर्य्यायः । अवासाः २ दिगम्बरः ३ । इत्यमरः । ३ । १ । ३९ ॥ तथा च भृगुः । “विकक्षाऽनुत्तरीयश्च नग्नश्चावस्त्र एव वा । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥ विकक्षः परिधानासंवृतकच्छः । तथा च योगि- याज्ञवल्क्यः । “परिधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिःस्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्बस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः ॥” आचारचन्द्रिकायाम् । “द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव च । एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः ॥” इत्याह्निकतत्त्वम् ॥ “न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न वै संस्पृष्टमैथुनम् ॥ नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् । न गच्छेन्न पठेद्बापि न चैव स्वशिरः स्पृशेत् ॥” इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः ॥ पारिभाषिकनग्ना यथा, -- “येषां कुले न वेदोऽस्ति न शास्त्रं नैव च व्रतम् । ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ “ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विज ! । एतामुजझति यो मोहात् स नग्नः पातकी स्मृतः ॥ यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडपि मैत्रेय ! स नग्नः पापकृन्नरः ॥” इति विष्णुपुराणे १८ अध्यायः ॥
नग्नः, पुं, (नज + क्तः । निष्ठातस्य नः ।) वन्दी । (यथा, नैषधे । १९ । २१ । “रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां प्रियवचसि यन्नग्नाचार्य्या वदामतमां ततः ॥”) क्षपणकः । इति विश्वमेदिन्यौ ॥ शेषस्य पर्य्यायः । नग्नाटकः २ निर्ग्रन्थकः ३ भदन्तः ४ दिगम्ब- रकः ५ । इति हारावली । ११५ ॥
