सामग्री पर जाएँ

नग्नहू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नग्नहु, [ऊ] क्ली, (नग्नं ह्वयति स्पर्द्धते अनेनेति । ह्वे + करणे क्विप् ।) नग्नहूः । इति भरतधृतामर- माला ॥ (बाहुलकात्कुप्रत्यये कृते पुंलिङ्गेऽपि दृश्यते । यथा, वाजसनेयसंहितायाम् । १९ । १४ । “आतिथ्यरूपं मासरं महावीरस्य नग्नहुः ॥” “सर्जत्वक्त्रिफलाशुण्ठीपुनर्नवाचतुर्जातकपिप्पली- गजपिप्पलीवंशावकाबृहच्छत्राचित्रकेन्द्रवारुण्य- श्वगन्धाधान्यकयवानीजीरकद्वयहरिद्राद्बयवि- रूढयवव्रीहय एकीकृता नग्नहुः ॥” इति । १९ । १ । मन्त्रटीकायां वेददीपः ॥)

नग्नहूः, पुं, (नग्नं ह्वयति स्पर्द्धते येनेति । ह्वे + क्विप् ।) नानाद्रव्यकृतसुराबीजम् । वाखर इति ख्यातम् । इति भरतः ॥ तत्पर्य्यायः । क्विण्वम् २ इत्यमरः । २ । १० । ४२ ॥ कण्वम् ३ नग्नहु ४ इति तट्टीका ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नग्नहू पुं।

नानाद्रव्यकृतमद्यम्

समानार्थक:किण्व,नग्नहू

2।10।42।1।4

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नग्नहू¦ mn. (-हूः-हु) Ferment, a drug used to throw the mixture for spirituous liquor into fermentation. E. नग्न naked, and ह्वे to call, affix क्विप्, what is called for by the bare-faced, shameless, &c.

"https://sa.wiktionary.org/w/index.php?title=नग्नहू&oldid=339695" इत्यस्माद् प्रतिप्राप्तम्