नतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नतः, पुं, (नमति स्मेति । नम + क्तः ।) जन्म- नाडिकाविशेषः । तद्यथा, -- “असकृत्कर्म्मणा येन यान्ति दृक्तुल्यतां दिवि । नतोन्नतौ ततः साध्यौ भावाः खेटबलानि षट् ॥ दिनार्द्धान्तरिता जन्मनाडिका नतनाडिका । पूर्ब्बापरार्द्धे जातस्य प्राक्पराख्या दिने भवेत् ॥ रात्रेर्गतघटीशेषघटीदिनार्द्धसंयुता । परपूर्ब्बाभिधा ज्ञेया रजन्यां नतनाडिका ॥” इति कोंष्ठीप्रदीपः ॥
नतः, त्रि, (नम + क्तः ।) कुटिलः । नम्रः । इति मेदिनी । ते, २९ ॥ (यथा, हरिवंशे । २०१ । ३९ । “पतन्ति युगपत् सर्व्वे पादयोर्मूर्द्धभिर्नताः ॥”)
