नदीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नदीनः, पुं, (नदीनां इनः पतिः ।) समुद्रः । इति त्रिकाण्डशेषः ॥ वरुणः । यथा । अयं नदीन इत्याद्युत्तरनैषधः ॥ (अनेनोवंशीयस्य सहदेवस्य पुत्त्रः । यथा, हरिवंशे । २९ । ४ । “सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः । नदीनस्य जयत्सेनो जयत्सेनस्य सत्कृतिः ॥” न दीनः इति नञ्समासे दरिद्रभिन्ने, त्रि ॥)
