सामग्री पर जाएँ

नद्युत्सृष्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नद्युत्सृष्टः, त्रि, (नद्या उत्सृष्टः ।) नदीकर्त्तृक- त्यक्तवस्तु । तद्रूपभूखण्डस्य चर इति चडा इति च भाषा ॥ नद्युत्सृष्टा भूमिस्तु यस्याघि- कारे जाता तस्यैव भवति । यथा, -- “नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही । अन्यथा न भवेल्लाभो नराणां राजदैविकः ॥ क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम् । तस्मात् सर्व्वेषु कार्य्येषु तत्कृतं न विचालयेत् ॥” इति विवादचिन्तामणिविवादरत्नाकरवीर- मित्रोदयप्रभृतिग्रन्थधृतवचनम् ॥

"https://sa.wiktionary.org/w/index.php?title=नद्युत्सृष्टः&oldid=143305" इत्यस्माद् प्रतिप्राप्तम्