ननु
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु, व्य, (न नुदति प्रेरयतीति । नुद् + मितद्र्वादि- त्वात् डुः ।) प्रश्नः । पृच्छा । अवधारणम् । (यथा, रघुः । १ । ६० । “उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणाञ्च प्रतिहर्त्ता त्वमापदाम् ॥”) निश्चयः । (यथा, महाभारते । १३ । ६ । १९ । “लोको दैवं समालोक्य उदासीनो भवेन्ननु ॥”) अनुज्ञा । (यथा, शिशुपालवघे । ९ । ६१ । “ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ॥”) अनुमतिः । अनुनयः । सान्त्वनम् । आमन्त्र- णम् । सम्बोधनम् । (यथा, कुमारे । ४ । ३२ । “विधुरां ज्वलनातिसर्ज्जनात् ननु मां प्रापय पत्युरन्तिकम् ॥”) एषामुदाहरणानि यथा, -- “प्रश्ने नन्वध्येष्यामहे । अवधारणे ननु गच्छामः । अनुज्ञायां सर्व्वैर्ननु ज्ञायताम् । अनुनये ननु चण्डि ! प्रसीद । आमन्त्रणे ननु चैत्र । विरो- धोक्तिः । इत्यमरभरतौ ॥ विनिग्रहः । अनु- प्रश्नः । परकृतिः । अधिकारः । सम्भ्रमः । इति मेदिनी । ने, ४४ ॥ आक्षेपः । प्रत्युक्तिः । वाक्या- रम्भः । इति हेमचन्द्रः । ६ । १७८ ॥ उत्- प्रेक्षालङ्कारव्यञ्जकम् । यथा, -- “मन्ये शङ्के ध्रुवं नूनं किंवा प्रायोऽनुवेद्मि च । ननु नाम हि जानामि उत्प्रेक्षाव्यञ्जकानि च ॥” इति काव्यचन्द्रिका ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु अव्य।
आमन्त्रणम्
समानार्थक:बत,ननु
3।3।249।2।1
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
पदार्थ-विभागः : , गुणः, शब्दः
ननु अव्य।
अनुज्ञा
समानार्थक:ननु
3।3।249।2।1
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
ननु अव्य।
अनुनयः
समानार्थक:ननु,खलु,अयि
3।3।249।2।1
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
पदार्थ-विभागः : , गुणः, मानसिकभावः
ननु अव्य।
अवधारणम्
समानार्थक:मात्र,तु,यावत्_तावत्,ननु,हि
3।3।249।2।1
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
पदार्थ-विभागः : , क्रिया
ननु अव्य।
प्रश्नः
समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्
3।3।249।2।1
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
: दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः
पदार्थ-विभागः : , गुणः, शब्दः
ननु अव्य।
विरोधोक्तिः
समानार्थक:ननु
3।4।14।1।1
ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने। निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्.।
पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु¦ अव्य॰ नुद--डु।
१ प्रश्ने
२ अवधारणे
३ अनुज्ञायाम्
४ विनये
५ आमन्त्रणे च अमरः।
६ अनुनये विश्वः।
७ विनिग्रहे
८ परकृतौ
९ अधिकारे
१० सम्भ्रमे च मेदि॰।
११ आक्षेपेप्रत्युक्तौ
१२ वाक्यारम्भे च हेमच॰। तत्र प्रश्ने
“ननुगमिष्ये इत्यादि। अवधारणे
“उपपन्नं ननु शिवम्” रघुःउपपन्नमेव।
“त्वया नियम्या ननु दिव्यचक्षुषा” रघुः
“आमन्त्रणे (सम्योधने) ननु मां प्रापय पत्युरन्तिकम्” [Page3959-a+ 38] कुमा॰ (ननु हे वसन्त!) आक्षेपे
“ननु प्रात्यहिकभोज-नस्य कुञ्जरशौचवत् दुःखानिवर्त्तकत्वे कथं तत्र प्रवृत्तिस्त-त्राह” सा॰ प्र॰ भा॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु¦ ind.
1. A particle of interrogation, (how, what.)
2. Of affirmation, (certainly.)
3. Of assent.
4. A consolatory and kind expression.
5. A vocative particle, (ho, hola.) or one implying kindness, concilia- tion, (pray, good friend, &c.)
6. An inceptive particle, implying doubt or dissent, (may be, but, on the other hand.)
7. A responsive particle.
8. A particle of reproach. E. न negative, नुद् to send or command, affix डु |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु [nanu], ind. (Originally a combination of न and नु, now used as a separate word) A particle implying:
Inquiry or interrogation; ननु समाप्तकृत्यो गौतमः M.4.
Surely, certainly, indeed, is it not indeed (with an interrogative force); यदा$मेधाविनी शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो ननु M.1.
Of course, indeed, certainly (अवधारणम्); उपपन्नं ननु शिवं सप्तस्वङ्गेषु R.1.6; त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा 3.45.
It is used as a vocative particle meaning 'O', 'Oh',; ननु मानव Dk.; ननु मूर्खाः पठितमेव युष्माभिस्तत्काण्डे U.4.
It is used in propitiatory expressions in the sense of 'pray', 'be pleased'; ननु मां प्रापय पत्युरन्तिकम् Ku.4.32.
It is sometimes used as a corrective word like the English 'why' or 'I say'; ननु पदे परिवृत्य भण Mk.5; ननु भणामि चिन्तित उपाय इति V.2.; ननु भवानग्रतो मे वर्तते Ś.2; ननु विचिनोतु भवान् V.2.
In argumentative discussions ननु is frequently used to head an objection or advance a contrary proposition (generally followed by उच्यते); नन्वचेतनान्येव वृश्चिकादिशरीराणि अचेतनानां च गोमयादीनां कार्याणीति उच्यते Ś.B.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ननु/ न--नु See. ननु
ननु/ न-नु ind. (2. न+ नु)not , not at all , never RV. AV. ; (interr.) not? is it not? = nonne AV. S3Br. etc. etc. (hence often = ) certainly , surely , indeed , no doubt ( esp. in questions amounting to an affirmation e.g. नन्व् अहं ते प्रियः, am I not your friend i.e. certainly I am your -frfriend Das3. [so also न च, there can be no doubt Pa1n2. 2-3 , 11 ; 29 Ka1s3. ], or to a request e.g. ननु गच्छामिभोः, surely I may go Pa1n2. 8-1 , 43 Ka1s3. , and even as a responsive particle e.g. अकार्षीः कटम्ननु करोमि भोः, indeed I have made it ib. ; with another interr. or an Impv. = pray , please e.g. ननु को भवान्, pray who are you? Mr2icch. x , 48/49 ; ननू-च्यताम्, please tell ib. 52/53 ; in argument often as an inceptive particle implying doubt or objection , " now it may be said , well , but then " etc. , esp. in नन्व् अस्तु, or ननु मा भूत्-तथा-पि, well , be it so or not so-nevertheless)
ननु/ न-नु ind. a vocat. particle implying kindness or reproach or perplexity etc. L.