नन्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दः, पुं, (नन्दतीति । नन्द + पचाद्यच् ।) विष्णुः । यथा । “आनन्दो नन्दनो नन्दः ।” इति महाभारते । १३ । १४९ । ६९ ॥ नरपतिभेदः । स तु महानन्दिसुतः क्षत्त्रियवंशान्तः । (यथा, भागवते । १२ । १ । ७ -- ११ । “महानन्दिसुतो राजन् ! शूद्रागर्भोद्भवो बली । महापद्मपतिः कश्चिन्नन्दः क्षत्त्रविनाशकृत् । ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्म्मिकाः ॥ स एकच्छत्रां पृथिवीमनुल्लङ्घितशासनः । शासिष्यति महापद्गो द्वितीय इव भार्गवः ॥ तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः ॥ नव नन्दान् द्विजः कश्चित् प्रपन्नाबुद्धरिष्यति । तेषामभावे जगतीं मौर्य्या भक्ष्यन्ति वै कलौ ॥”) आनन्दः । निधिविशेषः । इति पुराणशब्द- रत्नावल्यौ ॥ गोपभेदः । स च श्रीकृष्णपिता । नन्दः पुरा द्रोणनामा वसुरासीत् । यथा, -- “द्रोणो वसूनां प्रवरो धरया सह भार्य्यया । करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोको ययाञ्जो दुर्गतिन्तरेत् ॥ स्वस्तीत्युक्तः स भगवान् व्रजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥” इति श्रीभागवते । १० । ८ । ४८-५० ॥ वेणुविशेषः । यथा, -- “महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तमा वंशा मातङ्गमुनिसम्मताः ॥ दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ॥” इति सङ्गीतदामोदरः ॥ (मृदङ्गविशेषः । यथा, महाभारते । ७ । २२ । ८५ । “मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ ॥” स्कन्दस्यानुचरविशेषः । इति महाभारते । ९ । ४५ । ६१ ॥ नागविशेषः । इति महाभारते । ५ । १०३ । १२ ॥ यज्ञेश्वरस्यानुचरविशेषः । यथा, भागवते । ४ । ७ । २२ । “दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥” धृतराष्ट्रस्य पुत्त्राणामन्यतमः । इति महा- मारतम् । १ । ६७ । ९६ । मदिरागर्भजातो वसुदेवस्य पुत्त्रविशेषः । इति भागवतम् । ९ । २४ । ४८ ॥ क्रौञ्चद्वीपस्य वर्षपर्व्वतविशेषः । इति भागवतम् । ५ । २० । २१ ॥ स्वनाम- ख्यातो दत्तकमीमांसाग्रन्थप्रणेता । यथा, -- “अभिवन्द्य जगद्बन्द्यपदद्बन्द्वविनायकम् । पुत्त्रीकरणमीमांसां कुरुते नन्दपण्डितः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दः [nandḥ], [नन्द्-भावे घञ्]
Happiness, pleasure, joy.
A kind of lute (11 inches long). (MW. 7 inches).
A frog.
N. of Viṣṇu.
N. of a cowherd, husband of Yaśodā and foster-father of Kṛiṣṇa (to whose care the child was committed when Kaṁsa wanted to destroy it).
N. of the founder of the Nanda dynasty; or of nine brother-kings of Pāṭaliputra killed by the machinations of Chāṇakya, the minister of Chandragupta; समुत्खाता नन्दा नव हृदयरोगा इव भुवः Mu. 1.13; अगृहीते राक्षसे किमुत्खातं नन्दवंशस्य Mu.1.27;3.28.
One of the nine treasures of Kubera.
Number 'nine' (from the nine Nandas.). -दी An epithet of Durgā. -Comp. -आत्मजः, -नन्दनः an epithet of Kṛiṣṇa-पालः an epithet of Varuṇa. -प्रयागः N. of a sacred place.
