सामग्री पर जाएँ

नन्दकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दकः, पुं, (नन्दयतीति । नन्द + ण्वुल् ।) विष्णु- खड्गः । इत्यमरः । १ । १ । ३० ॥ (यथा, हरिवंशे । १२७ । ४४ । “रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च । प्रहरारुह्य गरुडं दृढो भूत्वा जनार्द्दन ! ॥”) भेकः । इति त्रिकाण्डशेषः ॥ हर्षके कुलपालके च त्रि । इति मेदिनी । के, १०९ ॥ कृष्णपिता आनन्दः । आनन्दकारकश्च ॥ (नागविशेषः इति महाभारतम् । ५ । १०३ । ११ ॥ स्कन्द- स्यानुचरविशेषः । इति महाभारतम् । ९ । ४५ । ६६ ॥ धृतराष्ट्रस्य पुत्त्रविशेषः । इति महाभारतम् । १ । १८७ । ३ ॥)

"https://sa.wiktionary.org/w/index.php?title=नन्दकः&oldid=143315" इत्यस्माद् प्रतिप्राप्तम्