सामग्री पर जाएँ

नन्दनन्दनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दनन्दनः, पुं, (नन्दस्य नन्दनः सुतः आनन्द- जनको वा ।) श्रीकृष्णः । इति शब्दरत्नावली ॥ तस्य लीलासंवरणान्ते तन्महिषीणां दस्यु- हस्तगतत्वकारणं यथा, -- व्यास उवाच । “कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्व्वकौर- वान् । आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम् ॥ पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् । त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः ॥ गृहीता दस्युभिर्याश्च भवता शोचिताः स्त्रियः । तदप्यहं यथावृत्तं कथयामि तवार्ज्जुन ! ॥ अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् । बहूनब्दगणान् पार्थ ! गृणन् ब्रह्म सनातनम् ॥ जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः । बभुव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रियः ॥ रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः । तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ! ॥ आकण्ठमग्नं सलिले जटाभारधरं मुनिम् । विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः ॥ यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा । सर्व्वास्ताः कौरवश्रेष्ठ ! वरिष्ठन्तं द्विजन्मनाम् ॥ श्रीअष्टावक्र उवाच । प्रसन्नोऽहं महाभागा भवतीनां यदीस्यते । मत्तस्तद्व्रियतां सर्व्वं प्रदास्याम्यतिदुर्लभम् ॥ श्रीपराशर उवाच । रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् । प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विज ! ॥ इतरास्त्वब्रुवन् विप्र ! प्रसन्नो भगवान् यदि । तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र ! पुरुषोत्तमम् ॥ श्रीव्यास उवाच । एवं भविष्यतीत्युक्त्वा प्रोत्ततार जलान्मुनिः । तमुत्तीर्णञ्च ददृशुर्विरूपं वक्रमष्टधा ॥ तब्दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ! ॥ श्रीअष्टावक्र उवाच । यस्माद्बिरूपरूपं मां मत्वा हासावमानना । भवतीभिः कृता तस्मादेष शापं ददामि वः ॥ मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ ॥” “एवन्तस्य मुनेः शापादष्टावक्रस्य केशवम् । भर्त्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः ॥ तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हि पाण्डव ! । तेनैवाखिलनाथेन सर्व्वन्तदुपसंहृतम् इति विष्णुपुराणे । ५ । ३८ । ६८ -- ८५ ॥

"https://sa.wiktionary.org/w/index.php?title=नन्दनन्दनः&oldid=143329" इत्यस्माद् प्रतिप्राप्तम्