नन्दनन्दिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दनन्दिनी, स्त्री, (नन्दस्य नन्दिनी कन्या ।) “नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।” इति मार्कण्डेयपुराणोक्तदेवीवचनात् तथात्वम् ।) दुर्गा । इति शब्दरत्नावली ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दनन्दिनी¦ स्त्री
६ त॰। दुर्गायां योगमायायां तस्यास्ततःउत्पत्तकथा हरिवं॰
५८ अ॰
“ताञ्चोवाच ततो निद्रां विष्णुःसत्यपराक्रमः। गच्छ निद्रे! मयोत्सृष्टा देवकीभवनान्ति-कम्। इमान् प्राणेश्वरान् गृह्य षड्गर्भान्नाम देहिनः। षट्सु गर्भेषु देवक्या योजयस्व यथाक्रमम्। जातेष्वेतेषुगर्भेषु नीतेषु च यमक्षयम्। कंसस्य विफले यत्ने देवक्याःसफले क्रमे। प्रसादं ते करिष्यामि मत्पभावसमंभुवि। येन सर्वस्य लोकस्य देवि! देवी भविष्यसि। सप्तमो देवकीगर्भो योऽंशः सौम्यो ममाग्रजः। ससंक्रामयितव्यस्ते सप्तमे मासि रोहिणीम्। सङ्कर्षणात्तुगर्भस्य स तु सङ्कर्षणो युवा। भविष्यत्यग्रजो भ्रातामम शीतांशुदर्शनः। पतितो देवकीगर्भः सप्तमोऽयंभयादिति। अष्टमे मयि गर्भस्थे कंसो यत्नं करिष्यति। या तु सा नन्दगोपस्य वसुदेवानुगस्य वै। यशोदा नामभद्रन्ते भार्य्या गोपकुलोद्वहा। तस्यास्त्वं नवमो गर्भःकुलेऽस्माकं भविष्यसि। नवम्यामेव संजाता कृष्णपक्षस्यबै तिथौ। अहन्त्वभिजिते योगे निशाया यौवने स्थिते। अर्द्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम्। अष्टमस्यतु मासस्य जातावावां ततः समम्। प्राप्स्यावो गर्भ-व्यत्यासं प्राप्ते कंसस्य शासने। अहं यशोदां यास्यामित्वं देवि! भज देवकीम्। आवयोर्गर्भव्यत्यसात् कंसोगच्छतु मूढताम्। ततस्त्वां गृह्य चरणे शिलायां निरसिष्यति। निरस्यमाना गगने स्थानं प्राप्स्यसि शा-श्वतम्”।
