सामग्री पर जाएँ

नन्दिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दी, [न्] पुं, (नन्द आनन्दोऽस्यास्तीति । इनिः ।) गर्द्दभाण्डवृक्षः । (यथा, -- “करीरं कुलकं नन्दी कुत्तेला शकुलादनी । कठिल्लं केम्बुकं शीतं सकोशातककर्क्कशम् ॥ तिक्तं पाके कटुग्राही वातलं कफपित्तजित् ॥” इति वाभटे । १ । ६ अध्याये ॥) वटवृक्षः । इतिं मेदिनी । ने, ८१ ॥ शिवगण- विशेषः । स च त्रिविधः । यथा, -- “आद्यः कनकनन्दी च गिरिकाख्यो द्बितीयकः । सोमनन्दी तृतीयस्तु विज्ञेया नन्दिनस्त्रयः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ शिवद्वारपालः । स शिवांशः शालङ्कायनमुनि- पुत्त्रः । यथा, -- “अन्यच्च ते प्रवक्ष्यामि परं गुह्यं वसुन्धरे ! । तप्यतस्तस्य तु मुनेरीश्वरेण समं सुतम् ॥ तं प्राप्स्यामि परं भावं ज्ञात्वा देवो महेश्वरः । सुन्दरन्त्वपरं रूपं घृत्वा दृष्टिसुखावहम् ॥ शालङ्कायनपुत्त्रत्वं योगमायामुपाश्रितः । प्राप्नोति तं न जानाति दक्षिणं पार्श्वमास्थितः ॥ मायायोगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक् । रूपवान् गुणवांश्चैव वपुषादित्यसन्निभः ॥ स तं न ज्ञायते जातं ममैवाराधने स्थितः । अथ नन्दी प्रहस्याह महादेवाज्ञया मुनिम् ॥ उत्तिष्ठ मुनिशार्द्दूल ! सफलस्ते मनोरथः । त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्त्रस्ते शाधि मां प्रभो ! ॥ त्वया तपः समारब्धमीश्वरेण समं सुतम् । प्राप्स्यामीति ततो मह्यं सदृशोऽन्यो न कश्चन ॥ विचार्य्येति तदाहं वै जातोऽस्मि स्वयमेव हि ॥” इति षराहपुराणम् ॥ स एव कल्पान्तरे शिवांशजशिलादमुनेः पुत्त्रः । यथा, -- “जजाप रुद्रमनिशं यत्र नन्दी महागणः । प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ॥ दत्त्वा चात्मसमानत्वं मृत्युवञ्चनमेव च । अभूदृषिः स धर्म्मात्मा शिलादो नाम धर्म्मवित् ॥ आराधयन् महादेवं पुत्त्रार्थं वृषभध्वजम् । तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ॥ शर्व्वः सोमौघविधृतो वरदोऽस्मीत्यभाषत । स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ॥ अयोनिजं मृत्युभीतं तया चैवोमया समम् । तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ॥ पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो विभुः । ततो यियक्षुः स्वां भूमिं शिलादो धर्म्मवित्तमः ॥ चकर्ष लाङ्गलेनोर्व्वीं भित्त्वादृश्यत शोभनः । सम्बर्त्तकानलप्रख्यः कुमारः प्रहसन्निव ॥ रूपलावण्यसम्पन्नस्तेजसा भासयन् दिशम् । कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ॥ शिलादं तात तातेति प्राह नन्दी पुनः पुनः । तं दृष्ट्वा नन्दिनं जातं शिलादः परिषस्वजे ॥ मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥” इति कूर्म्मे ४० अध्यायः ॥ (द्विसप्ततिसाध्यमौलिककायस्थानामन्यतमः । यथा, घटककारिकायाम् । “गुइः कीर्त्तिर्यशः कुण्डुर्नन्दी शीलो धनुर्गुणः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिन्¦ त्रि॰ नन्दते नन्द--णिनि।

१ हर्षयुक्ते

२ शालङ्कायनेशिलादिपुत्रे च शिवद्वारपाले पु॰

३ मुनिभेदे नन्दीश्वरशब्देदृश्यम्। स च शालङ्कायनमुनिपुत्रः यथा
“अन्यच्च तेप्रवक्ष्यामि परं गुह्यं वसुन्धरे!। तप्यतस्तस्य तु मुने-रीश्वरेण सभं सुतम्। तं प्राप्स्यामि परं भावं ज्ञात्वादेवो महेश्वरः। सुन्दरन्तु परं रूपं धृत्वा दृष्टिसुखा-वहम्। शालङ्कायनपुत्रत्वं योगमायामुपाश्रितः। प्राप्तोऽपि तं न जानाति दक्षिणं पार्श्वमास्थितम्। माया-योगबलोपेतस्त्र्यक्षो वै शूलपाणिधृक्। रूपवान्गुणवांश्चैव वपुषादित्यसन्निभः। सत्वं न ज्ञायते जातंतस्यैवाराधने स्थितः। अथ नन्दी प्रहस्याह महादेवा-[Page3962-a+ 38] ज्ञया मनिम्। उत्तिष्ठ मुनिशार्दूल! सफलस्ते मनोरथः। त्वद्दक्षिणाङ्गाज्जातोऽस्मि पुत्रस्ते शाधि म प्रभो!। त्वया तपः समारब्धमीश्वरेण समं सुतम् प्राप्स्या-मीति ततो मह्यं सदृशोऽन्यो न कश्चन। विचार्य्येतितवाहं वै जातोऽस्मि स्वयमेव हि” वराहपु॰। स एवकल्पान्तरे शिवांशजः शिलादमुनेः पुत्रः। यथा
“जजाप रुद्रमनिशं यत्र नन्दी महागणः। प्रीतस्तस्यमहादेवो देव्या सह पिनाकधृक्। दत्त्वा चात्मसमानत्वंमृत्युबञ्चनमेव च। अभूदृषिः स धर्मात्मा शिलादो नामधर्मवित्। आराधयन् महादेवं पुत्रार्थं धृषभध्वजम्। तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत्। शर्वः सो-मोऽघ विधृतो वरदोऽस्मीत्यभाषत। स वब्रे वरमीशानंवरेण्यं गिरिजापतिम्। अयोनिजं मृत्युहीनं त्वयाचैवोमया समम्। तथास्त्वित्याह भगवान् देव्या सहमहेश्वरः। पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो विभुः। ततो यियक्षुः स्वां भूमिं शिलादो घर्मवित्तमः। चकर्षलाङ्गलेनोर्वीं भित्त्वाऽदृश्यत शोभनः। संवर्त्तकानल-प्रख्यः कुमारः प्रहसन्निव। रूपलावण्यसम्पन्नस्तेजसाभासयन् दिशम्। कुमारतुल्योऽप्रतिमो मेघगम्भीरयागिरा। शिलादं तात तातेति प्राह नन्दी पुनःपुनः। तं दृष्ट्वा नन्दिनं जातं शिलादः परिषस्वजे। मुनिभ्योदर्शयामास ये तदाश्रमवासिनः” कूर्मपु॰

४० अ॰।
“लता-गृहद्वारगतोऽथ नन्दी” कुमा॰।

३ शिवगणविशेषे। स च त्रिविधः यथा
“आद्यः कनकनन्दी च गिरिकाख्योद्वितीयकः। सोमनन्दी तृतीयस्तु विज्ञेया नन्द्रिनस्त्रयः” वह्निपु॰।

४ गर्दभाण्डवृक्षे

५ धववृक्षे च मेदि॰।

६ विष्णौच
“भगवान् भगहा नन्दी वनमाली हलायुधः” विष्णुस॰ आनन्दीति पाठान्तरम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिन्¦ mfn. (-न्दी-न्दिनी-न्दि) Happy, rejoiced, delighted. m. (-न्दी)
1. The name of one of S4IVA'S chamberlains, and chief attendants.
2. The Indian fig tree.
3. Parspipal, (Hibiscus populneoides.)
4. The speaker of the prelude or prologue to a drama. f. (-न्दिनी)
1. A name of the goddess PA4RVATI.
2. GANGA4, the river goddess.
3. A hus- band's sister.
4. A fabulous cow, related to the cow of plenty, and the property of the sage VAS4ISHT4HA.
5. The Alaka4nanda river.
6. The mother of the writer VYA4RI. E. नन्द happiness, णिनि aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिन् [nandin], a. [नन्द्-णिनि]

Happy, pleased, glad, delighted.

Making happy, gladdening, giving delight; अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनी U.3.14.

Delighting in, liking. -m

A son.

The speaker of a prelude or benediction in a drama.

N. of the door-keeper of Śiva, his chief attendant, or of the bull which he rides; लतागृहद्वारगतो$थ नन्दी Ku.3.41; Māl.1.1.

An epithet of Viṣṇu.

The Indian fig-tree.

नी A daughter; तेषां कुले त्वमसि नन्दिनि पार्थिवानाम्; U.1.9.

A husband's sister.

A fabulous cow, daughter of Surabhi, yielding all desires (कामधेनु) and in the possession of the sage Vasisṭha; अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् R.1.82;2.69.

An epithet of the Ganges; नन्दिनी नलिनी सीता मालती च मलापहा । विष्णुपादाब्जसंभूता गङ्गा त्रिपथगमिनी ॥

The holy basil.-Comp. -तनयः, -सुतः the sage Vyāḍi.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिन् mfn. (initial न्cannot be cerebralized g. क्षुभ्ना-दि)rejoicing , gladdening( ifc. ) MBh. Ka1v.

नन्दिन् mfn. delighting in , liking ib.

नन्दिन् m. son( ifc. ; See. भा-स्कर-न्)

नन्दिन् m. the speaker of a prologue(See. नान्दिन्L. )

नन्दिन् m. N. of sev. plants (the Indian fig-tree , Thespesia Opulneoides etc. ) L.

नन्दिन् m. a partic. form of temple Var. (See. न्दि-वर्धन)

नन्दिन् m. N. of an attendant of शिवMBh. Hariv. etc. (See. नन्दि, न्दी-श, न्दिकेश्वर)

नन्दिन् m. of शिव's bull W.

नन्दिन् m. of sev. authors Cat.

"https://sa.wiktionary.org/w/index.php?title=नन्दिन्&oldid=341570" इत्यस्माद् प्रतिप्राप्तम्