सामग्री पर जाएँ

नन्दिवर्द्धन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिवर्द्धनः, पुं, (नन्दिं वर्द्धयतीति । वृध् + णिच् + ल्युः ।) शिवः । (नन्दिं आनन्दं वर्द्धयतीति ।) पक्षान्तः । पुत्त्रः । इति मेदिनी । ने, २३८ ॥ (यथा, गोः रामायणे । २ । ९९ । १४ । “सुषुवे यममित्रघ्नं कौशल्या नन्दिवर्द्धनम् ॥”) मित्रम् । इति शब्दरत्नावली ॥ (विमानविशेषः । यथा, विश्वकर्म्मप्रकाशे । ६ अध्याये । “विमानं छन्दकं तद्बदनेकशिखराततः । स चाष्टभूमिकस्तद्बत् सप्ततिर्नन्दिवर्द्धनः ॥” निमिवंशीयविशेषः । इति भागवतम् । ९ । १३ । १४ ॥) आनन्दवर्द्धके, त्रि ॥ (यथा, हरिवंशे । ६८ । २९ । “कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्द्धन ! । दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिवर्द्धन¦ पु॰ नन्दिमानन्दं वर्द्धयति वृध--णिच--ल्यु।

१ शिवे पु॰

२ पक्षान्ते च मेदि॰।

३ मित्रे शब्दर॰। आन-न्दवर्द्धकमात्रे पुत्रादौ त्रि॰। [Page3963-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नन्दिवर्द्धन¦ m. (-नः)
1. SIVA.
2. The last day of either half of the month, the full or new moon.
3. A son.
4. A friend. E. नन्दि happiness, &c. and वर्द्धन increasing. वृध-णिच् ल्यु |

"https://sa.wiktionary.org/w/index.php?title=नन्दिवर्द्धन&oldid=341617" इत्यस्माद् प्रतिप्राप्तम्