नन्दिवर्द्धनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दिवर्द्धनः, पुं, (नन्दिं वर्द्धयतीति । वृध् + णिच् + ल्युः ।) शिवः । (नन्दिं आनन्दं वर्द्धयतीति ।) पक्षान्तः । पुत्त्रः । इति मेदिनी । ने, २३८ ॥ (यथा, गोः रामायणे । २ । ९९ । १४ । “सुषुवे यममित्रघ्नं कौशल्या नन्दिवर्द्धनम् ॥”) मित्रम् । इति शब्दरत्नावली ॥ (विमानविशेषः । यथा, विश्वकर्म्मप्रकाशे । ६ अध्याये । “विमानं छन्दकं तद्बदनेकशिखराततः । स चाष्टभूमिकस्तद्बत् सप्ततिर्नन्दिवर्द्धनः ॥” निमिवंशीयविशेषः । इति भागवतम् । ९ । १३ । १४ ॥) आनन्दवर्द्धके, त्रि ॥ (यथा, हरिवंशे । ६८ । २९ । “कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्द्धन ! । दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ॥”)
