नन्दीवृक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दीवृक्षः, पुं, (नन्दि + वा ङीष् । नन्द्याः वृक्षः । नन्दीजनको वृक्षोवा ।) कोङ्कणदेशप्रसिद्धसुगन्धि- वृक्षविशेषः । तत्पर्य्यायः । तूणीकः २ तूणिकः ३ तूणी ४ पीतकः ५ कच्छपः ६ नन्दी ७ कुठे- रकः ८ कान्तः ९ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । शीतत्वम् । पित्तरक्तदाहशिरोऽर्त्ति- स्वेदकुष्ठनाशित्वम् । सुगन्धित्वम् । पुष्टिवीर्य्यदातृ- त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अश्वत्थाकारः क्षीरवान् स्वनामप्रसिद्धो वृक्षः । इति भरतः ॥ तु~द् इति ख्यातो वृक्ष इति केचित् ॥ तत्पर्य्यायः । तुन्नः २ कुवेरकः ३ कुणिः ४ कच्छः ५ कान्त- लकः ६ । इत्यमरः । २ । ४ । १२८ ॥ तुणिः ७ । इति भरतः ॥ नन्दिवृक्षः ८ कूणिः ९ तुन्दः १० नन्दिकः ११ नन्दिवृक्षकः १२ । इति शब्द- रत्नावली ॥ * ॥ मेषशृङ्गीवृक्षः । इति रत्नमाला ॥ स्थालीवृक्षः । इति भावप्रकाशः ॥
