नन्दीश्वरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नन्दीश्वरः, पुं, (नन्दिनो गणविशेषस्य ईश्वरः ।) शिवः । इति शब्दरत्नावली ॥ नन्दीशतालः । इति सङ्गीतदामोदरः ॥ (नन्दी ईश्वरश्च ।) शिवद्वारपालः । तस्य शिवपार्श्वदत्वकारणं यथा, -- “ततस्त्रेतायुगे काले नन्दी नाम महामुनिः । आरिराधयिषुः शर्व्वं तपस्तेपे सुदारुणम् ॥ ततस्तु भगवान् प्रीतस्तस्मै विप्राय शङ्करः । उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः ॥ वरान् वृणीष्व विप्रेन्द्र ! यानिच्छसि महामुने ! । तांस्ते सर्व्वान् प्रयच्छामि दुर्लभानपि मारिष ॥ इत्युक्तोऽसौ भगवता शर्व्वेण सुनिपुङ्गव । प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना ॥ यदि प्रीतोऽसि भगवन् ! अनुक्रोशतया मम । अनुग्राह्यो ह्यहं देव त्वयावश्यं सुराधिपं ! ॥ यथा नान्ये भवेद्भक्तिस्त्वयि नित्यं महेश्वर ! । तथाहं भक्तिमिच्छामि सर्व्वभूताशये त्वयि ॥ एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः । प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा ॥ मद्रूपधारी मत्तेजास्त्र्यक्षः सर्व्वगुणोत्तमः । भविष्यसि न सन्देहो देवदानवपूजितः ॥ अनेनैव शरीरेण जरामरणवर्ज्जितः । दुष्प्राप्येयमवाप्या ते देवैर्गाणेश्वरी गतिः ॥ पार्श्वदानां वरिष्ठश्च मामकानां द्विजोत्तम ! । नन्दीश्वर इति ख्यातो भविष्यसि न संशयः ॥ अद्यप्रभृति देवाग्र्य ! देवकार्य्येषु सर्व्वतः । त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर ! ॥ त्वामेवाभ्यर्च्चयिष्यन्ति सर्व्वभूतानि सर्व्वतः । मत्तः समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप ! ॥ यस्त्वां द्वेष्टि स मां द्बेष्टि यस्त्वामनु स मामनु । नावयोरन्तरं किञ्चिदम्बरानिलयोरिव ॥ द्बारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ! । वामेन विभुना वापि महाकालेन सर्व्वदा ॥” इति वराहपुराणम् ॥
