सामग्री पर जाएँ

नपुंसकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नपुंसकम्, क्ली, (न स्त्री न पुमान् । “नभ्राण्नपा- दिति ।” ६ । ३ । ७५ । इति निपातनात् स्त्रीपुंसयोः पुंसक-आदेशः ।) क्लीवम् । इत्यमरः । २ । ६ । ३९ ॥ हिजिडा इति भाषा ॥ तस्य कारणं यथा, -- “उभयोर्ब्बीजसामान्ये जायते वै नपुंसकम् ॥” इति सुखबोधः ॥ * ॥ (नपुंसको भवेदिति भाष्यप्रयोगात् पुंलिङ्गोऽपि भवति । तथा, च पञ्चतन्त्रे । १ । ३६४ । “परदेशभयाद्भिता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥”) नपुंसकगर्भस्य चिह्नं यथा, -- “नपुंसकं यदा गर्भो भवेद्गर्भोऽर्वुदाकृतिः । उन्नते भवतः पार्श्वे पुरस्तदुदरं महत् ॥” * ॥ नपुंसकविशेषानाह । “आसेक्यश्च सुगन्धिश्च कुम्भीकश्चेर्षकस्तथा । अमी सशुक्रा बोद्धव्या अशुक्रो भ्रूणसंज्ञकः ॥” तेषां लक्षणान्याह । “पित्रोस्तु स्वल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत् । स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम् ॥ यः पूतियोनौ जायेत स हि सौगन्धिको भवेत् । स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते । स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स स्मृतः ॥ दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते । ईर्षकः स तु विज्ञेयो दृष्टियोनिश्च स स्मृतः ॥ यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते । तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः ॥” इति भावप्रकाशः ॥ (अस्य विवृतिर्यथा, -- “समवीर्य्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत् । नपुंसकमिति ख्यातं न स्त्री न पुरुषो वदेत् ॥” “समदोषबलेनापि प्रकृत्या विकृतेरपि । समो भवेदसृक् शुक्रो नपुंसकसमुद्भवः ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=नपुंसकम्&oldid=143377" इत्यस्माद् प्रतिप्राप्तम्