नभास्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नभाः, [स्] पुं, (नभति हिनस्ति कीटादी- निति । नभ + “सर्व्वधातुभ्योऽसुन् ।” उणां ४ । १८८ । इति असुन् ।) श्रावणमासः । (यथा, रघुः । १२ । २९ । “स जहार तयोर्म्मध्ये मैथिलीं लोकशोषणः । नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे ॥”) मेघः । घ्राणम् । वर्षाः । विसतन्तुः । पतद्ग्रहः । इति मेदिनी । से, २६ ॥ पलितशीर्षम् । इति धरणी ॥
