नमस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमः, [स्] व्य, (नम शब्दनत्योः + भावे असुन् ।) नतिः । इत्यमरः । ३ । ४ । १८ ॥ (यथा, मार्कण्डेये । “नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥” क्लीवलिङ्गेऽपि दृश्यते । यथा, भागवते । ३ । १३ । ४२ । “विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥”) त्यागः । रुतम् । इत्युणादिकोषः ॥ (क्ली, अन्नम् । इति निघण्टुः । २ । ७ ॥ वज्रम् । इति निघण्टुः । २ । २० ॥ स्तोत्रम् । यथा, ऋग्वेदे । ७ । १६ । १ । “एना वो अग्निं नमसोर्जो नपातमा हुवे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस् अव्य।

नमस्कारार्थः

समानार्थक:नमस्

3।4।18।2।3

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि। हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्¦ अव्य॰ नम--भावे असुन् स्वरादि॰। नमने

१ स्वापकर्ष-बोधकव्यापारे

२ त्यागे स्वस्वत्वध्वंसानुकूलव्यापारभेदे। पुष्पंविष्णवे नम इत्यादौ विष्णूद्देश्यकमन्त्रकरणकत्यागविषयःपुष्पमित्येवं बोधः यथाह शब्दशक्तिप्रकाशिकायाम्(
“पुष्पमिदं विष्णवे नम इत्यस्य विष्णूद्देश्यक मन्त्रक-रणत्यागस्य कर्मेदं पुष्पमित्यर्थस्तथ चतुर्थ्या प्रीत्युद्देश्य-कत्वं तदिच्छाधीनत्वरूपं नमःपदार्थे मन्त्रकरणत्यागेबोध्यते प्रकृत्यर्थस्य च विष्ण्वादेः प्रीतौ तदिच्छायां वान्वयः। व्राह्मणाद्युद्देश्यकस्य गवातित्वागस्य मन्त्रकरणत्वेप्रमाणाभावात् गौर्ब्राह्मणाय नम इत्यादिकोन प्रयोगः। [Page3967-a+ 38] व्राह्मणेभ्यो नमोनित्यमित्यादौ तु नमःपदार्थो नति-रेवेति तत्र विषयत्वं चतुर्थ्या बोध्यते। पुष्पमिदं पर-मात्मने नम इत्यादी परमात्मनः प्रीत्यसत्त्वेऽपि तत्प्री-तित्वप्रकारकेच्छासम्भवान्न तत्प्रीत्युद्देश्यकत्वाप्रसिद्धिः”। नम्यते कर्मणि असुन्

३ अन्ने

४ वज्रे च निघण्टुःनमोवृध्शब्दे दृश्यम्। साक्षादा॰ उप॰ स॰। नमस्करोतिनमस्कृत्य। अत्र कृधातोरेव नमनार्थता नमश्शब्दस्तुतदर्थद्योतकः तेन नारायणं नमस्कृत्येत्यादौ द्वितीयाउपपदविभक्तेः कारकविभक्तिर्गरीयसी” इति न्यायात्नमसोवाचकत्वे नमस्कृत्य व्राह्मणेभ्य इत्यादौ नमः-शब्दयोगे चतुर्थी।
“नमः स्वस्तीत्यादि” पा॰ सूत्रेत्यागार्थकनमनार्थकयोरुभयोर्ग्रहणम्।

५ यज्ञे च न॰
“यज्ञो वै नमः” इति श्रुतेः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस्¦ ind.
1. Gift, present.
2. Bowing, bending, salutation, obeisance.
3. An inarticulate cry.
4. The term used in connexion with the name of a deity in the fifth case to signify veneration, as रामाय नमः salutation, glory or reverence to RA4MA. E. नम् to bend, and affix असुन-सच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस् [namas], ind.

A bow, salutation, obeisance, adoration; (this word is, by itself, invariably used with dat.; तस्मै वदान्यगुरवे तरवे नमो$स्तु Bv.1.94; नमस्त्रिमूर्तये तुभ्यम् Ku.2.4; but with कृ, generally with acc.; मुनित्रयं नमस्कृत्य Sk.; but sometimes with dat. also; नमस्कुर्मो नृसिंहाय ibid. The word has the sense of a noun, but is treated as an indeclinable.)

Ved. Food.

A thunderbolt.

A gift, present.

A sacrifice.-Comp. -कारः, -कृतिः f. -करणम् bowing, respectful or reverential salutation, respectful obeisance (made by uttering the word नमस्). -कारी a kind of plant (Mar. लाजाळू). -कृत a.

bowed down to, saluted.

revered, adored, worshipped.

गुरुः a spiritual teacher.

a Brāhmaṇa.

चमसः a kind of cake.

the moon.

magic. -वाकम् ind. uttering the word नमस्i. e. making a low obeisance; इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे U.1.1; -m. नाथायाभिरुपासिताय च नमोवाकानधीयीमहि Viś. Gunā.123. -वृध् m. a sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नमस् n. bow , obeisance , reverential salutation , adoration (by gesture or word ; often with dat. e.g. रामाय नमः, salutation or glory to राम, often ind. [ g. स्वर्-आदि] ; नमस्-कृ, to utter a salutation , do homage ; ind.p. मस्-कृत्य[ AV. TS. etc. ] or मस्-कृत्वा[ MBh. BhP. ] ; नमस्-कृत, worshipped , adored) RV. etc.

नमस् n. food Naigh. ii , 7

नमस् n. a thunderbolt , ii , 20

नमस् n. gift , donation L.

नमस् m. (?) an inarticulate cry L.

"https://sa.wiktionary.org/w/index.php?title=नमस्&oldid=500545" इत्यस्माद् प्रतिप्राप्तम्