सामग्री पर जाएँ

नमस्कारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नमस्कारी, स्त्री, (नमस्कारस्तदञ्जलिरिव पत्र- सङ्कोचोऽस्त्यस्या इति । अच् । गौरादित्वात् ङीष् ।) खदिरिकाशाकः । लाजालु इति ख्यात इति केचित् ॥ किन्तु रभसेन वराह- क्रान्ता लज्जालुः समङ्गा जलकारिकेति खदिरि- कायाम् । सङ्कोचपत्री लज्जालुरिति लज्जा- लुकायां पठितम् । अञ्जलिरूपपत्रत्वादञ्जले- र्नमस्कारव्यञ्जकत्वात् नमस्कारशीलेव नमस्कारी । इत्यमरटीकायां भरतः ॥ (यथास्याः पर्य्यायो वैद्यकरत्नमालायाम् । “गण्डकालीनमस्कारी समङ्गा खदिरी क्वचित् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नमस्कारी स्त्री।

खदिरा

समानार्थक:नमस्कारी,गण्डकारी,समङ्गा,खदिरा

2।4।141।2।1

सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि। नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नमस्कारी¦ स्त्री नमस्कारः तदङ्गाञ्जलिरिव पत्रम् अस्त्यस्याःअच् गौरा॰ ङीष्। लज्जालुवृक्षे अमरः। तस्याः नम-स्काराङ्गाञ्जलिरूपपत्रकत्वात् तथात्वम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नमस्कारी/ नमस्--कारी f. a kind of plant

"https://sa.wiktionary.org/w/index.php?title=नमस्कारी&oldid=342509" इत्यस्माद् प्रतिप्राप्तम्