नरककुण्ड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरककुण्डम्, क्ली, (नरकस्य कुण्डम् ।) यातनास्थानम् । तद्यथा, यम उवाच । “नरकाणाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराणभेदेन नामभेदानि तानि च ॥ विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् । भयङ्कराणि घोराणि हे वत्से ! कुत्सितानि च ॥ षडशीतिश्च कुण्डानि संयमन्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्ध्वानि श्रुतौ सति ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । २७ । २८ अध्यायौ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरककुण्ड¦ न॰ यातनास्थानभेदे
“यन उवाच नरका-णाञ्च कुण्डानि सन्ति नानाविधानि च। नानापुराण-भेदेन नामभेदानि तानि च। भयङ्कराणि घोराणिहे वत्स! कुत्सितानि च। षडशीतिश्च कुण्डानि संयम-न्याञ्च सन्ति च। निबोध तेषां नामानि प्रसिद्धानि श्रुतौस्मृतौ” इति ब्रह्मवैवर्त्ते प्रकृतिख॰
२७ ।
२८ अ॰। नरकभेदकुण्डानि पापभेदात् तत्र गामिनः
१ वह्निकुण्डम्--कटुबाचा बान्धबोत्पीड्कः।
२ तप्तकुण्डम्--ब्राह्मणातिथिभोजनाप्रदायी।
३ क्षारकुण्डम्--निषिद्धदिने वस्त्रे क्षारसंयोजकः।
४ विट्कुण्डम्--ब्रह्मवृत्त्यपहारकः।
५ मूत्रकण्डम्--परतडागं स्वनित्वोत्सर्जकः।
६ श्लेष्मकुण्डम्--एकाकी मिष्टभोजी।
७ गरकुण्डम्--पितृमातृगुरुभार्य्याद्यपोषकः।
८ दूषिकाकुण्डम्--अतिथिं दृष्ट्वा वक्रचक्षुःकारी।
९ वसाकुण्डम्--विप्राय प्रतिश्रुत्य तद्द्रव्यमन्यस्मै दाता। [Page3972-b+ 41]
१० शुक्रकुण्डम्--परस्त्रीगामी ना परपुंगामिनी च स्त्री।
११ असृक्कुण्डम्--गुर्वादिताडकस्तद्रक्तस्रावकश्च।
१२ अश्रुकुण्डम्--हरिसङ्गीतैरुदद्गायद्गद्गदभक्तोपहासकृत्।
१३ गात्रमलकुण्डम्--शश्वदशुद्धचित्तः खलताकारी च।
१४ कर्णविट्कुण्डम्--बधिरोपहासकृत्।
१५ मज्जकुण्डम्--लोभात् स्वभोजनार्थं जीवहन्ता।
१६ मांसकुण्डम्--अर्थलोभात् कन्याविक्रेता।
१७ नखकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी।
१८ लोमकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी।
१९ केशकुण्डम्--सकेशपार्थिवशिवलिङ्गार्चकः।
२० अस्थिकुण्डम्--विष्णुपदे पितृपिण्डादायो।
२१ ताम्रकुण्डम्--गुर्विणीगामी।
२२ लौहकुण्डम्--ऋतुस्नाताऽवीरयोरन्नभोजी।
२३ तीक्ष्णकण्टककुण्डम्--कटुवाचा स्वामितर्जिका स्त्री।
२४ विषकुण्डम्--विषेण जीवहन्ता।
२५ घर्मकुण्डम्--सघर्भहस्तेन देवद्रव्यस्पर्शी।
२६ तप्तसुराकुण्डम्--शूद्रानुज्ञातः शूद्रान्नभोजी।
२७ प्रतप्ततैलकुण्डम्--दण्डेन वृषताडकः।
२८ कुन्तकुण्डम्--कुन्तलौहवडिशैर्जीवहन्ता।
२९ कृमिकुण्डम्--वृथामांसमत्स्यभुग्विप्रो हरेरनैवेद्यभुक् च।
३० पूयकुण्डम्--शूद्रयाजी तस्य श्राद्धभुक् तच्छवदाही च।
३१ सर्पकुण्डम्--श्रीकृष्णपदचिह्नमस्तक्स्य सर्पस्य हन्ता।
३२ ग्रशककुण्डम्--विधिं हित्वा क्षुद्रजन्तुहन्ता।
३३ दंशकुण्डम्--विधिं हित्वा जीवहन्ता।
३४ गरलकुण्डम्--मक्षिकां हत्वा मधुग्राही।
३५ वज्रदंष्ट्रकुण्डम्--अदण्ड्यविप्रयोर्दण्डकृत् नृपः।
३६ वृश्चिककुण्डम्--अर्थलोभात् प्रजादण्डकृत् नृपः।
३७ शरकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः।
३८ शूलकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः।
३९ खङ्गकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः।
४० गोलकुण्डम्--अल्पदोषेण कारायां प्रजाबन्धनकृत् नृपा।
४१ नक्रकुण्डम्--जलादुत्थितनक्रादिहन्ता।
४२ काककुण्डम्--कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा।
४३ सञ्चालकुण्डम्--स्वर्णचौरः।
४४ वाजकुण्डम्--ताम्रलौहचौरः।
४५ वज्रकुण्डम्--भूदेवदेवद्रव्ययोश्चौरः।
४६ तप्तपाषाणकुण्डम्--देवद्विजयोरौप्यगोवस्त्राणां चौरः।
४७ तीक्ष्णपाषाणकुण्डम्--देवद्विजयोःपित्तलकांस्यपात्रचौरः। [Page3973-a+ 38]
४८ लालाकुण्डम्--वेश्यान्नभुक् तद्वृत्तिजीवी च।
४९ मसीकुण्डम्--म्लेच्छसेवी मसीजीवी च व्राह्मणः।
५० चूर्णकुण्डम्--देवद्विजयोः शस्यताम्बूलासनचौरः।
५१ चक्रकुण्डम्--विप्रद्रव्यं हृत्वा चक्रकारो।
५२ वक्रकुण्डम्--विप्रबान्धवयोर्वक्रताचारी।
५३ कूर्मकुण्डम्--हरिशयने कूर्ममांसभुक् ब्राह्मणः।
५४ ज्वालाकुण्डम्--देवद्विजयोर्घृततैलादिहृत्।
५५ भस्मकुण्डम्--देवद्विजयोर्घृततैलादिहृत्।
५६ दण्डकुण्डम्--देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता
५७ तप्तशूर्म्मीकुण्डम्--बलखलत्वादिना परभूमिहरः।
५८ असिपत्रकुण्डम्--अर्थलोभात् स्वड्गेन नरथाती।
५९ क्षुरधारकुण्डम्--ग्रामनगरादिदाहकारी।
६० सूचीमुखकुण्डम्--परकर्णे मुखं दत्त्वा परनिन्दकःपरदोषोद्द्वोषी वेदब्राह्मणनिन्दकश्च।
६१ गोधामुखकुण्डम्--गृहं भित्त्वा वस्तुगोच्छागमेषचौरः।
६२ नक्रमुखकुण्डम्--सामान्यद्रव्यचौरः।
६३ गजदंशकुण्डम्--गजतुरगनरचौरः।
६४ गोमुखकुण्डम्--गोर्जलपानवारकः। कुम्भीपाककुण्डम्--गोस्त्रीभिक्षुभ्रूणब्रह्महाऽगम्यागामी दी-क्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलः शूद्र-सूपकारी वृषलीपतिश्च।
६६ कालसूत्रकुण्डम्--नेश्यान्नभुक् तत्संसर्गी च।
६७ अवटोदकुण्डम्--कुलटादिषड्वेश्यागामी द्विजः।
६८ अरुन्तुदकुण्डम्--चन्द्रसूर्यग्रहणे निषिद्धकाले भोजी।
६९ पांशुभोजकुण्डम्--एकस्मै वाक्प्रदत्तकन्याया दोषं विनाअन्यस्मै दाता।
७० पाशवेष्टकुण्डम्--दत्तापहारी।
७१ शूलप्रोतकुण्डम्--अभक्त्या शिवलिङ्गपूजकः।
७२ प्रकम्पनकुण्डम्--विप्रदण्डकृत् तत्कम्पकृद्भयदायी च।
७३ उल्कामुखकुण्डम्--सकोपवदना स्वामिनि कतुवादिनी।
७४ अकूपकुण्डम्--शूद्रभोग्या व्राह्मणी।
७५ वेदनकुण्डम्--पञ्चषट्पुङ्गमनात् वेश्या।
७६ दण्डताडनकुण्डम्--सप्ताष्टपुंगमनात् रण्डा।
७७ जालबद्धकुण्डम्--अष्टाधिकपुंगमनात् महावेश्या।
७८ देहचूर्णकुण्डम्--पुंद्वयगमनात् कुलटा।
७९ दलमकुण्डम्--चतुःपुंगमनात् स्वैरिणी वृषली च।
८० शोषणकुण्डम्--त्रिपुंगमनात् धृष्टा पुंश्चली।
८१ कषकुण्डम्--सवर्णपरटारगामी। [Page3973-b+ 38]
८२ सूर्पकुण्डम्--व्राह्मणीगमनकारको क्षत्रियोवैश्यश्च।
८३ ज्वालामुखकुण्डम्--करे तुलसीगङ्गाजलदेवशिलाश्च धृत्वाप्रतिज्ञाकृत्तदपालको मिथ्याशषथी मित्रद्रोही विश्वा-सघाती मिथ्यासाक्ष्यदश्च।
८४ जिक्ष्मंकुण्डम्--नित्यक्रियाहीनो देवयजनेऽनास्थिकोम-न्दोपहासी च।
८५ धूमान्धकुण्डम्--देवविप्रयोर्धनहारी।
८६ नागवेष्टनकुण्डम्--वैद्यदैवज्ञवृत्तिहारी लाक्षालोहव्या-पारी रसादिविक्रयी च ब्राह्मणः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरककुण्ड¦ n. (-ण्डं) A well or pit in Tartarus, eighty-six such are enu- merated. E. नरक, and कुण्ड a pit.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरककुण्ड/ नरक--कुण्ड n. a pit in hell for tormenting the wicked (86 in number) BrahmaP.
