नरककुण्डम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरककुण्डम्, क्ली, (नरकस्य कुण्डम् ।) यातनास्थानम् । तद्यथा, यम उवाच । “नरकाणाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराणभेदेन नामभेदानि तानि च ॥ विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् । भयङ्कराणि घोराणि हे वत्से ! कुत्सितानि च ॥ षडशीतिश्च कुण्डानि संयमन्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्ध्वानि श्रुतौ सति ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । २७ । २८ अध्यायौ ॥
