नरकमुक्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरकमुक्तः, त्रि, (नरकात् मुक्तः ।) नरकागतः । यथा, -- “नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते । पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः ॥ नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी । उपाध्यायं व्यलीकन्तु कृत्वा श्वा भवति द्विजः ॥ तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् । गर्द्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत् ॥ शत्रोरितरमाक्रुश्य शारिका संप्रजायते । पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते ॥ भर्त्तुः पिण्डमुपाश्रन्तो हित्वान्यानि च सेवयेत् । एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् । विद्यापहारी मूकश्च गत्वा च नरकान् बहून् ॥ असमिद्धेऽग्नौ हुते च मन्दाग्निः संप्रजायते । परनिन्दाकृतघ्नत्वं परमर्म्मावघातनम् । नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ निकृत्य वञ्चनं नणां कार्पण्यञ्च नृणां बुधः । उपलक्षणादि जानीयात् मुक्तानां नरकादनु ॥” प्रसङ्गात् स्वर्गागतलक्षणमप्याह । “दया भूतेषु संवादः परलोकं प्रतिक्रिया । सत्यं भूतहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम् ॥ गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः । सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ॥ अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम् ॥” इति गारुडे कर्म्मविपाकः २२९ अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरकमुक्त¦ पु॰ नरकान्मुक्तः। नरकान्मुक्ते
“कपूयचरणाःकपूयां योनिमापद्येरन्” श्रुतिः अनुशयशब्दे
१८
८ पृ॰दृश्यम्। गारुडे
२२
९ अ॰ ततो मुक्तानां पापविशेषात्योनिभेदप्राप्तिरुक्ता यथा
“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते। पतितात्प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः। नरकात् प्रतिमुक्तस्तुकृमिर्भवति पातकी। उपाध्याये व्यलीकन्तु कृत्वा श्वाभवति द्विजः। तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसं-शयम्। गर्दभो जायते जन्तुर्मित्रस्यैबापमानकृत्। शत्रो-वितरमाक्रुश्य शारिका संप्रजायते। पितरौ पीडयित्वा तुकच्छपत्वञ्च जायते। भर्त्तुः पिण्डमुपाश्नन् यो हित्वाऽन्यानि च सेवयेत्। सोऽपि मोहसमापन्नो जायते बा-नरो मृतः। न्यासापहर्त्ता नरकात् विमुक्तो जायतेकृमिः। असूयकश्च नरकान्मुक्तो भवति राक्षसः। विश्वा-कहर्त्ता च नरी{??}नयोनौ प्रजायते। यवधान्यानिहृत्वा तु जायते मूषिको मृतः। परदारामिमर्षात्तु वृकोषोरोऽभिजायते। भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायतेनरः। गुर्वादिभार्थ्यागमनाच्छूकरो जायते नरः। यज्ञ-दानविवाहानां विघ्नकर्त्ता भवेत् कृमिः। देवतापितृ-विप्राणामदत्त्वा योऽन्नमश्नुते। प्रमुक्तो नरकाद्वापि वा-यसः स प्रजायते। ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौप्रजायते। शूद्रश्च ब्राह्मणीं गत्वा कृभियोनौ प्रजायते। तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत्। कृतघ्नःकृमिकः कीटः पतङ्गो वृश्चिकस्तथा। अशस्त्रं पुरुषंहत्वा नरः संजायते खरः। कृमिः स्त्रीषधकर्त्ता चबालहन्ता प्रजायते। भोजनं चोरयित्वा तु मक्षिकाजायते नरः। हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैवमूषिकः। घृतं हृत्वा च नकुलः काको मद्गुरमामिषम्। मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः। अपोहृत्वा तु पापात्मा वायसः संप्रजायते। हृते कांस्ये चहारीतः कपोतो वा प्रजायते। हृत्वा तु काञ्चनं भाण्डंहमियोनौ प्रजायते। कार्पासिके हृते क्रौञ्चो वह्नि-हर्त्ता वकस्तथा। मयूरो वर्णकं हृत्वा शाकं पत्रञ्चजायते। जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः। छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत्। षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः। पुष्पाप-[Page3974-b+ 38] हृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः। शाकहर्त्ता च हारीत-स्तोयहर्त्ता च चातकः। गृहह्णत् नरकान् गत्वारौरवादीन् सुदारुणान्। तृणगुल्मलतावलीत्वकसारतरुतां व्रजेत्। एष एव क्रमो दृष्टो गोसुवर्णादि-हारिणाम्। विद्यापहारी मूकश्च गत्वा च नरकान्बहून्। असमिद्धेऽग्नौ च हुते मन्दाग्निः संप्रजायते। परनिन्दाकृतघ्नत्वं परमर्मावघातनम्। नैष्ठुर्य्यं निर्घृण-त्वञ्च परदारोपसेवनम्। परस्वहरणाऽशौचं देवता-नाञ्च कुत्सनम्। निकृत्या वञ्चनं नॄणां कार्पण्यञ्च नृणांबुधः। उपलक्षणाद्विजानीयात् मुक्तानां नकरादनु” प्रसङ्गात् स्वर्गादागतलक्षणं तत्रैव यथा
“दयाभूतेषु संवादःपरलोकं प्रति क्रिया। सत्यं भूतहिता चोक्तिर्वेदप्रामाण्यदर्शनम्। गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः। सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः। अष्टाङ्ग-योगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्”। अधिकं कर्म-विपाक शब्दे
१७
४२ पृ॰ दृश्यम्।
