नरगणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरगणः, पुं, (नरस्य गणो यस्मात् ।) नवनक्षत्र- विशेषः । तज्जातजनः । यथा, -- “हस्तास्वातिमृगाश्विनीहरिगुरुः पौष्णानु- राधादिति- श्चार्द्रा रोहिणि चोत्तराणि भरणी पूर्ब्बाणि भानि त्रयम् । ज्येष्ठाश्लेषविशाखमूलवरुणावस्वग्निचित्रामघाः कथ्यन्ते मुनिभिर्यथाक्नमवशाद्देवा नरा राक्षसाः ॥” इति दीपिका ॥ अस्य फलम् । यथा, कोष्ठीप्रदीपे । “मानुष्ये मृदुकर्म्मसङ्गतमनाः शीलान्वितो धीयुतः ॥” (नराणां गणः ।) नरसमूहः ॥
