सामग्री पर जाएँ

नरनारायणौ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नरनारायणौ, पुं, (नरश्च नारायणश्च तौ ।) ऋषिविशेषौ । तावेव श्रीकृष्णार्ज्जुनौ सम्भूतौ । इति महाभारतम् ॥ (यथा, देवीभागवते । ४ । ५ । १३ । “नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”) तयोरुत्पत्तिर्यथा, -- “अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्द्दनः । तत् सर्व्वं ज्ञापयामास वराहवपुषो हितम् ॥ ततो देहपरित्यागं कर्त्तुं समभवद्यदा । तदा दंष्ट्राग्रघातेन नरसिंहं महाबलम् ॥ सरभो भगवान् भर्गो द्बिधा मध्ये चकार ह । नरसिंहे द्बिधाभूते नरभागेन तस्य तु ॥ नर एव समुत्पन्नो दिव्यरूपी महानृषिः । तस्य पञ्चास्यभागेन नारायण इति श्रुतः ॥ अभवत् स महातेजा मुनिरूपो जनार्द्दनः । नरो नारायणश्चोभौ सृष्टिहेतू महामती ॥ ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदे तपःसु च ॥” इति कालिकापुराणे २९ अध्यायः ॥ कल्पभेदे तौ धर्म्मपुत्त्रौ । यथा, -- “धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां नारायणो नर इति स्वत्पःप्रभावः । दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥” इति श्रीभागवते । २ । ७ । ६ ॥ (अनयोर्विशेषविवरणन्तु देवीभागवते ४ स्कन्धस्य ५ अध्यायमारभ्य द्रष्टव्यम् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नरनारायणौ¦ द्वि॰ व॰। नरश्च नारायणश्च। ऋषिभेदयोःतयोः सम्भवकथा
“तदा दंष्ट्राग्रघातेन नरसिंहं महाव-लम्। सरभो भगवान् भर्गो द्बिधा मध्ये चकार ह। [Page3975-a+ 38] नरसिंहे द्विधा भूते नरभागेण तस्य तु। नर एव समुत्-पन्नो दिव्यरूपी महानृषिः। तस्य पञ्चास्यभागेन नारा-यण इति श्रुतः। अभवत् स महातेजा मुनिरूपीजनार्दनः। नरो नारायणश्चोभौ सृष्टिहेतू महामती। ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदतपःसु च” कालिकापु॰

३९ अ॰। एतच्च वाराहकल्पे। अन्यकल्पे तु तौ घर्मस्य पुत्रौयथोक्तं भाग॰

२ ।

६ अ॰
“धर्मस्य दक्षदुहितर्य्यजनिष्ट सूत्यांनारायणो नर इति स्वतपःप्रभावौ”। स्वायम्भुवेमन्वन्तरे धर्मस्य चतुर्षु पुत्रेषु तौ च द्वौ यथा
“नारायणोहि विश्वात्मा चतुर्मूर्त्तिः सनातनः। धर्मात्मजः सम्ब-भूव पितैवं मेऽभ्यभाषत। कृते युगे महाराज! पुरास्वायम्भवेऽन्तरे। नरो

१ नारायण

२ श्चैव हरिः

३ कृष्णः

४ स्वयम्भुवः। तेषां नारायणनरौ तपस्तेपतुरव्ययौ। वदर्य्याश्रममासाद्य शकटे कनकामये” भा॰ शा॰

३३

६ अ॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--one of the births of the जयादेवस्; these are विपश्चित्, Indra, Satya and Hari. वा. ५४. ७५; ६६. १४.

"https://sa.wiktionary.org/w/index.php?title=नरनारायणौ&oldid=431637" इत्यस्माद् प्रतिप्राप्तम्