नरमेध
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरमेधः, पुं, (मिध हिंसायाम् + भावे घञ् । नराणां पुरुषाणां मेधो हिंसनं यत्र ।) नर- वधात्मकयज्ञविशेषः ॥ (यज्ञोऽयं वाजसनेय- संहितायाम् ३० -- ३१ अध्याययोर्दर्शितः । तत्र अधिकार्य्यादिकं ३० अध्याये वेददीपे उक्तम् । यथा, -- “ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेध- संज्ञ्को यज्ञो भवति । सर्व्वभूतान्यतिक्रम्य स्थानमतिष्ठा । चैत्रशुक्लदशम्यामारम्भः । अत्र त्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्च सुत्या इति चत्वारिंशद्दिनैः सिध्यति । अत्र यूपैकादशिनी भवति एकादशाग्निषोमीयाः पशवो भवन्ति तेषाञ्च प्रतियूपं मध्यमे वा यूपे यथेच्छं नियोजनम् । आज्येन सकृद्गृहीतेन देव सवितरिति प्रत्यृचं तिस्र आहुतीराहव- नीये जुहोति ॥”) स तु कलौ वर्ज्जनीयः । यथा, -- “समुद्रयात्रास्वीकारः कमण्डलुविधारणम् । द्बिजानामसवर्णासु कन्यासूपयमस्तथा ॥ देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः । मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ॥ दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य च । दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ ॥ महाप्रस्थानगमनं गोमेधश्च तथा मखः । इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः ॥” इत्युद्बाहतत्त्वे बृहन्नारदीयम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरमेध¦ पु॰ नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ--आधारेघञ्
६ त॰। पुरुषमेधाख्ये यज्ञभेदे स च यज्ञः यजु॰
३० ।
३१ अध्याययोर्दर्शितः तत्राधिकार्यादिकम्
३० अध्यायेवेददीपे उक्तं यथा
“ब्राह्मणराजन्ययोरतिष्ठाकामयोःपुरुषमेधसंज्ञको यज्ञो भवति। सर्वभूतान्यतिक्रम्य-स्थानमतिष्ठा। चैत्रशुक्लदशम्यामारम्भः। अत्र त्रयो-विंशतिर्दीक्षा भवन्ति द्वादशोपसुदः पञ्चसुत्या इति चत्वा-रिंशद्दिनैः सिध्यति। अत्र यूपैकादशिनी भवति एका-दशाग्नीषोमीयाः पशवो भवन्ति तेषां च प्रतियूप” मध्यमे वा यूपे यथेच्छं नियोजनम्। आज्येन सकृद्-गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहव-नीये जुहोति”। देवताभेदेन तत्रालभ्यपशुभेदास्तत्र
“ब्रह्मणे ब्राह्मणमित्यादिना” अध्यायसमाप्तिपर्यन्ते-नोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्मा-द्यष्टाचत्वारिंशद्देवदेवत्याः पशवः
“स एतं पुरुषमेघंपञ्चरात्रं यज्ञक्रतुमदृश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्य-तिष्ठत् सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणिभूतानीदं सर्वं भवति य एवं विद्वान् पुरुषमेधेनयजते यो वैतदेवं वेद। तस्य त्रयोविंशतिर्दीक्षाः। द्वाद-शोपसदः पञ्चसुत्याः स एष चत्वारिंशद्रात्रः सदीक्षोप-सत्कः” शत॰ ब्रा॰
१३ ।
६ ।
१ ।
२ । अत्र पञ्चरात्रत्वोक्तिःपञ्चसुत्याभिप्रायेणेति न विरोधः।
“त्रिंशदग्नीनहं ब्रह्म-न्नयजं यच्च नित्यदा। अष्टाभिः सर्वमेधैश्च नरमेधैश्चस-प्तिभिः” भा॰ अनु॰
१०
३ अ॰
“राजसूयाश्वमेधौ च सर्वमेधञ्चभारत!। नरमेधञ्च नृपते! त्वमाहर युधिष्ठिर। ” भा॰ आश्र॰
३ अ॰।
१८
०३ पृ॰ कलिशब्दे दर्शितेन वृह-न्नारदीयवचनेन नरमेधस्य कलौ
“दीर्घकालं ब्रह्मचर्य्यनरमेघाश्वमेधकावित्यनेन” निषेधेऽपि कलियुगोत्पन्न[Page3976-a+ 38] युधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु न विरुध्यतेहरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात्ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्य-वगमाच्च तदूर्द्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्यु-क्तकलिवर्ज्यस्यावकाश इत्यवधेयम्। भूमौ श्रीकृष्ण-स्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तःतच्च वाक्यं कलिशब्दे
१७
९५ पृ॰ दर्शितम्। अतो युधि-ष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं न विरुध्यते
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरमेध¦ m. (-धः) A human sacrifice. E. नर, and मेध a sacrifice. मिध आधारे घञ् |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नरमेध/ नर--मेध m. = -बलिMBh. R.
