सामग्री पर जाएँ

नरसारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नरसारः, पुं, (नरवत् शुद्धः सारो यत्र ।) बणिग्- द्रव्यविशेषः । नौसादर इति निशादल इति च भाषा । तस्य पर्य्यायः । यथा, रत्नमालायाम् । “द्विदलो गोपकः पिण्डो वोलो गन्धरसो रसः ॥” तस्य शुद्धिर्यथा, -- “नरसारो भवेच्छुद्धश्चूर्णतोये विपाचितः । दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये ॥” इति सारचन्द्रिका स तु द्रव्यान्तरयोगेन महाद्रावको भवति यथा, “नरसारयवक्षारस्फटिकारित एव काचवकयन्त्रैः । बहुशः पात्यं सत्त्वं तद्धि महाद्रावकं नाम ॥” इति रत्नावली ॥ यथाच वैद्यकभैषज्यधन्वन्तरिग्रन्थे यकृत्प्लीहा- धिकारे । “वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका । स्नुही तालस्य पुष्पाणि वर्षाभूर्वेतसन्तथा ॥ एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन च । क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत् ॥ चण्डातपेन संशोष्य ग्राह्यन्तद्द्रवणोचितम् । एतस्य द्विपलं ग्राह्यं यवक्षारपलद्बयम् ॥ स्फटिकारिपलञ्चैव नरसारपलन्तथा । पलार्द्धं सैन्धवं ग्राह्यं टङ्गनं तोलकद्वयम् ॥ कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् । दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम् ॥ सर्व्वमेकत्र सञ्चूर्ण्य वकयन्त्रेण साधयेत् । महाद्रावकमेतद्धि योज्यञ्च रसजारणे ॥ हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोदराणि च ॥”)

"https://sa.wiktionary.org/w/index.php?title=नरसारः&oldid=143531" इत्यस्माद् प्रतिप्राप्तम्