सामग्री पर जाएँ

नरसिंहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नरसिंहः, पुं, (नर इव सिंह इव च आकृति- र्यस्य ।) विष्णुः । इति शब्दरत्नावली ॥ स तु हिरण्यकशिपुवधार्थं भगवद्दशावतारान्तर्गत- श्चतुर्थः पूर्णावतारः । इति वराहपुराणम् ॥ (नरेषु सिंहः । नरः सिंह इव इत्युपमित- समासो वा ।) नरश्रेष्ठः । यदुक्तम् । “स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्द्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥” इति विशेष्यनिघ्ने अमरः ॥ (यथा, महाभारते । १० । १० । १६ । “क्रुद्धस्य नरसिंहस्य संग्रामेष्वपलायिनः । ये व्यमुञ्चन्त कर्णस्य प्रमादात्त इमे हताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=नरसिंहः&oldid=143533" इत्यस्माद् प्रतिप्राप्तम्