सामग्री पर जाएँ

नरेन्द्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

नरेन्द्रः, पुं, (नर इन्द्र इष नराणामिन्द्रो वा ।) राजा । (यथा, मनुः । ९ । २५३ । “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥”) विषवैद्यः । इति मेदिनी । रे, १७१ ॥ (यथा, माघे । २ । ८८ । “सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ॥” वृक्षविशेषः । यथा, सुश्रुते चिकित्सितस्थाने । ९ अध्याये । “पूतीकार्कस्नुग्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च ॥” एकविंशत्यक्षरवृत्तिविशेषः । इति चिन्तामणिः ॥ यथा, -- “चामररत्नरज्जुवरपरिगतविप्रगणाहितशोभः पाणिविराजिपुष्पयुगविरचितकङ्कणसङ्गतगन्धः । चारुसुवर्णकुण्डलयुगलकृतरोचिरलङ्कृतवर्णः पिङ्गलपन्नगेश इति निगदति राजति वृत्तनरेन्द्रः ॥”)

"https://sa.wiktionary.org/w/index.php?title=नरेन्द्रः&oldid=143544" इत्यस्माद् प्रतिप्राप्तम्